________________
__सजोगिके वलिखीणकसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहापढमसमयसजोगिकेवलिखीणकसायवीयरागसंजमे चेव अपढमसमयसजोगिकेवलिखीणकसायवीयरागसंजमे चेव ६॥ अहवा चरिमसमयसजोगिकेवलिखीणकसायवीयरागसंजमे चेव अचरिमसमयसजोगिकेवलिखीणकसायवीयरागसंजमे चेव ७।
अजोगिके वलिखीणकसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहापढमसमयअजोगिकेवलिखीणकसायवीयरागसंजमे चेव अपढमसमयअजोगिकेवलिखीणकसायवीयरागसंजमे चेव ८। अहवा चरिमसमयअजोगिकेवलिखीणकसायवीयरागसंजमे चेव अचरिमसमयअजोगिकेवलिखीणकसायवीयरागसंजमे चेव ९॥
[टी०] चारित्रधर्मश्च संयमोऽतस्तमेवाह- दुविहेत्यादि, सह रागेण अभिष्वङ्गेण मायादिरूपेण यः स सरागः, स चासौ संयमश्च सरागस्य वा संयम इति वाक्यम्, वीतो विगतो रागो यस्मात् स चासौ संयमश्च वीतरागस्य वा संयम इति वाक्यमिति । सरागेत्यादि, सूक्ष्मः असङ्ख्यातकिट्टिकावेदनतः सम्परायः कषायः, सम्परैति संसरति संसारं जन्तुरनेनेति व्युत्पादनात् । __ स च लोभकषायरूपः उपशमकस्य क्षपकस्य वा यस्य स सूक्ष्मसम्परायः साधुः, तस्य सरागसंयमः, विशेषणसमासो वा भणनीय इति । बादराः स्थूराः सम्परायाः कषाया यस्य साधोः यस्मिन् वा संयमे स तथा सूक्ष्मसम्परायप्राचीनगुणस्थानकेषु, शेषं प्राग्वदिति।
सुहमेत्यादिसूत्रद्वये प्रथमाप्रथमसमयादिविभागः केवलज्ञानवदिति ।
अहवेत्यादि, सक्लिश्यमानकः संयमः उपशमश्रेण्याः प्रतिपततः, विशुद्धयमानस्तामुपशमश्रेणी क्षपकश्रेणी वा समारोहत इति । बादरेत्यादिसूत्रद्वयम्, बादरसम्परायसरागसंयमस्य प्रथमाप्रथमसमयता संयमप्रतिपत्तिकालापेक्षया चरमाचरमसमयता तु यदनन्तरं सूक्ष्मसम्परायता असंयतत्वं वा भविष्यति तदपेक्षयेति। अहवेत्यादि, प्रतिपाती उपशमकस्यान्यस्य वा, अप्रतिपाती क्षपकस्येति । सरागसंयम उक्तोऽतो वीतरागसंयममाह- वीयरागेत्यादि, उपशान्ताः प्रदेशतोऽप्यवेद्यमानाः कषाया यस्य