________________
चेव २३॥
[टी०] दर्शनमभिहितमथ ज्ञानमभिधीयते, तत्र च दुविहे नाणे इत्यादीनि आवस्सगवइरित्ते दुविहे इत्यादिसूत्रावसानानि त्रयोविंशतिः सूत्राणि सुगमानि । नवरं ज्ञानं विशेषावबोधः, अश्नाति भुङ्क्ते अश्नुते वा व्याप्नोति ज्ञानेनार्थानित्यक्षः आत्मा, तं प्रति यद् वर्तते इन्द्रिय-मनोनिरपेक्षत्वेन तत् प्रत्यक्षम् अव्यवहितत्वेनाऽर्थसाक्षात्करणदक्षमिति, आह च
अक्खो जीवो अत्थव्वावण-भोयणगुणण्णिओ जेण । तं पड़ वट्टइ नाणं जं पच्चक्खं तमिह तिविहं ॥ [विशेषाव० ८९] ति ।
परेभ्यः अक्षापेक्षया पुद्गलमयत्वेन द्रव्येन्द्रिय-मनोभ्योऽक्षस्य जीवस्य यत्तत् परोक्षं निरुक्तवशादिति, आह च
अक्खस्स पोग्गलकया जं दव्विंदिय-मणा परा तेण । तेहिंतो जं नाणं परोक्खमिह तमणुमाणं व ॥ [विशेषाव० ९०] त्ति ।
अथवा परैरुक्षा सम्बन्धनं जन्य-जनकभावलक्षणमस्येति परोक्षम् इन्द्रियमनोव्यवधानेनाऽऽत्मनोऽर्थप्रत्यायकम्, असाक्षात्कारीत्यर्थः । पच्चक्खेत्यादि, केवलम् एकं ज्ञानं केवलज्ञानम्, तदन्यद् नोकेवलज्ञानम् अवधि-मनःपर्यायलक्षणमिति । केवलेत्यादि, भवत्थकेवलनाणे चेव त्ति भवस्थस्य केवलज्ञानं यत्तत्तथा, एवमितरदपि। भवत्थेत्यादि, सह योगैः कायव्यापारादिभिर्यः स सयोगी, इन्समासान्तत्वात्, स चासौ भवस्थश्च, तस्य केवलज्ञानमिति विग्रहः, न सन्ति योगा यस्य स न योगीति वा योऽसावयोगी शैलेशीकरणव्यवस्थितः, शेषं तथैव । सयोगीत्यादि, प्रथमः समयः सयोगित्वे यस्य स तथा, एवमप्रथमो व्यादिः समयो यस्य स तथा, शेषं तथैव। अथवेत्यादि, चरमः अन्त्यः समयो यस्य सयोग्यवस्थायाः स तथा, शेषं तथैव । एवमिति सयोगिसूत्रवत् प्रथमा-ऽप्रथम-चरमा-ऽचरमविशेषणयुक्तमयोगिसूत्रमपि वाच्यमिति । सिद्धेत्यादि, अनन्तरसिद्धो यः सम्प्रतिसमये सिद्धः, स चैकोऽनेको वा, तथा परम्परसिद्धो यस्य व्यादयः समयाः सिद्धस्य, सोऽप्येकोऽनेको वेति, तेषां यत् केवलज्ञानं तत्तथाऽपदिश्यत इति । ओहिनाणेत्यादि, भवपच्चइए त्ति क्षयोपशमनिमित्तत्वेऽप्यस्य क्षयोपशमस्यापि भवप्रत्ययत्वेन तत्प्राधान्येन भव एव प्रत्ययो यस्य