________________
द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः । तद्भवप्रत्ययमिति व्यपदिश्यत इति, इदमेव भाष्यकारेण साक्षेप-परिहारमुक्तम् ।
तथा तदावरणस्य क्षयोपशमे भवं क्षायोपशमिकमिति । 'दोण्हं भवपच्चइए'त्यादि सुगमम् । मणपज्जवेत्यादि, ‘उज्जुमई' ऋज्वी सामान्यग्राहिणी मतिः ऋजुमतिः घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धनं मनोद्रव्यपरिच्छित्तिरित्यर्थः, विपुला विशेषग्राहिणी मतिर्विपुलमतिः घटोऽनेन चिन्तितः स च सौवर्णः पाटलिपुत्रकोऽद्यतनो महानित्याद्यध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिरिति। __ आभिणिबोहियेत्यादि, श्रुतं कर्मतापन्नं निश्रितम् आश्रितम्, श्रुतं वा निश्रितमनेनेति श्रुतनिश्रितम्, यत् पूर्वमेव श्रुतकृतोपकारस्येदानीं पुनस्तदनपेक्षमेवानुप्रवर्त्तते तदवग्रहादिलक्षणं श्रुतनिश्रितमिति, यत् पुनः पूर्वं तदपरिकर्मितमतेः क्षयोपशमपटीयस्त्वादौत्पत्तिक्यादिलक्षणमुपजायतेऽन्यद्वा श्रोत्रादिप्रभवं तदश्रुतनिश्रितमिति ।
सुयेत्यादि, अत्थोग्गहे त्ति अर्यते अधिगम्यतेऽर्थ्यते वा अन्विष्यत इति अर्थः, तस्य सामान्यरूपस्य अशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं प्रथमपरिच्छेदनमर्थावग्रह इति, निर्विकल्पकं ज्ञानम्, दर्शनमिति यदुच्यते इत्यर्थः, स च नैश्चयिको यः स सामयिको यस्तु व्यावहारिकः शब्दोऽयमित्याद्युल्लेखवान् स आन्तमॊहूर्त्तिक इति, अयं चेन्द्रिय-मनःसम्बन्धात् षोढा इति । तथा व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनम्, तच्चोपकरणेन्द्रियं शब्दादित्वपरिणतद्रव्यसङ्घातो वा, ततश्च व्यञ्जनेन उपकरणेन्द्रियेण शब्दादित्वपरिणतद्रव्याणां व्यञ्जनानामवग्रहो व्यञ्जनावग्रह इति ।
सुयणाणे इत्यादि, प्रवचनपुरुषस्याङ्गानीवाङ्गानि, तेषु प्रविष्टं तदभ्यन्तरम्, तत्स्वरूपमित्यर्थः, तच्च गणधरकृतम् ‘उप्पन्ने इ वा' इत्यादिमातृकापदत्रयप्रभवं वा, ध्रुवश्रुतं वा आचारादि, यत् पुनः स्थविरकृतं मातृकापदत्रयव्यतिरिक्तव्याकरणनिबद्धमध्रुवश्रुतं वोत्तराध्ययनादि तदङ्गबाह्यमिति ।
अंगबाहीत्यादि, अवश्यं कर्त्तव्यमावश्यकं सामायिकादि षड्विधम्, आह चसमणेण सावएण य अवस्स कायव्वयं हवइ जम्हा । अंतो अहोणिसिस्स य तम्हा आवस्सयं नामं ॥ [विशेषाव० ८७३]