________________
___ सम्यग्दृष्टेस्तूपयुक्तस्य भावगर्हेति चतुर्द्धा गर्हणीयभेदाद् बहुप्रकारा वा, सा चेह करणापेक्षया द्विविधोक्ता, तथा चाह- मणसा वेगे गरहइ त्ति मनसा चेतसा वाशब्दो विकल्पार्थो अवधारणार्थो वा, ततो मनसैव न वाचेत्यर्थः, कायोत्सर्गस्थो दुर्मुखसुमुखाभिधानपुरुषद्वयनिन्दिता-ऽभिष्टुतस्तद्वचनोपलब्धसामन्तपरिभूतस्वतनयराजवार्ता मनसा समारब्धपुत्रपरिभवकारिसामन्तसङ्ग्रामो वैकल्पिकप्रहरणक्षये स्वशीर्षकग्रहणार्थव्यापारितहस्तसंस्पृष्टलुञ्चितमस्तकस्ततः समुपजातपश्चात्तापानलज्वालाकलापदन्दह्यमानसकलकर्मेन्धनो राजर्षिप्रसन्नचन्द्र इव एकः कोऽपि साध्वादिर्गर्हते जुगुप्सते, गर्यमिति गम्यते, तथा वचसा वा वाचा वा, अथवा वचसैव न मनसा भावतो दुश्चरिताविरक्तत्वाज्जनरञ्जनार्थं गर्हाप्रवृत्ताङ्गारमईकादिप्रायसाधुवत् एकोऽन्यो गर्हत इति । अथवा मणसाऽवेगे त्ति इह अपिः, स च सम्भावने, तेन सम्भाव्यते अयमर्थःअपि मनसैको गर्हते अन्यो वचसेति । अथवा मनसाऽपि, न केवलं वचसा एको गर्हते । तथा वचसाऽपि, न केवलं मनसा, एक इति स एव गर्हते, उभयथाप्येक एव गर्हत इति भावः । __ अन्यथा गर्हाद्वैविध्यमाह- अहवेत्यादि । अथवेति पूर्वोक्तद्वैविध्यप्रकारापेक्षः, द्विविधा गर्दा प्रज्ञप्तेति प्रागिव, अपिः सम्भावने, तेन अपि दीर्घा बृहतीम् अद्धां कालं यावदेकः कोऽपि गर्हते गर्हणीयमाजन्मापीत्यर्थः, अन्यथा वा दीर्घत्वं विवक्षया भावनीयम्, आपेक्षिकत्वात् दीर्घह्रस्वयोरिति । एवमपि ह्रस्वाम् अल्पां यावदेकोऽन्य इति । अथवा दीर्घामेव यावत् ह्रस्वामेव यावदिति व्याख्येयमपेरवधारणार्थत्वादिति। एक एव वा द्विधा कालभेदेन गर्हते भावभेदादिति । अथवा दीर्घ ह्रस्वं वा कालमेव गर्हत इति ।
[सू० ५२] दुविहे पच्चक्खाणे पन्नत्ते, तंजहा-मणसा वेगे पच्चक्खाति, वयसा वेगे पच्चक्खाति ।
अहवा पच्चक्खाणे दुविहे पन्नत्ते, तंजहा-दीहं पेगे अद्धं पच्चक्खाति, रहस्सं पेगे अद्धं पच्चक्खाति ।
[टी०] अतीते गर्थे कर्मणि गर्दा भवति, भविष्यति तु प्रत्याख्यानम्, उक्तं च