________________
द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः ।
अइयं निंदामि पडुप्पन्नं संवरेमि अणागयं पच्चक्खामी [पाक्षिकसू० ] ति । प्रत्याख्यानमाहदुविहे पच्चक्खाणे इत्यादि, प्रमादप्रातिकूल्येन मर्यादया ख्यानं कथनं प्रत्याख्यानम्, विधि-निषेधविषया प्रतिज्ञेत्यर्थः, तच्च द्रव्यतो मिथ्यादृष्टेः सम्यग्दृष्टेर्वाऽनुपयुक्तस्य कृतचतुर्मासमांसप्रत्याख्यानायाः पारणकदिनमांसदानप्रवृत्ताया राजदुहितुरिवेति, भावप्रत्याख्यानमुपयुक्तसम्यग्दृष्टेरिति, तच्च देश-सर्वमूलगुणोत्तरगुणभेदादनेकविधमपि करणभेदाद् द्विविधम्, आह च- मनसा वैकः प्रत्याख्याति वधादिकं निवृत्तिविषयीकरोति, शेषं प्रागिवेति । प्रकारान्तरेणापि तदाह- अहवेत्यादि सुगमम् ।
[सू० ५३] दोहिं ठाणेहिं अणगारे संपन्ने अणादीयं अणवयग्गं दीहमद्धं चाउरंतसंसारकंतारं वीतिवतेज्जा, तंजहा-विज्जाए चेव चरणेण चेव ।।
[टी०] ज्ञानपूर्वकं प्रत्याख्यानादि मोक्षफलमत आह- दोहिं ठाणेहीत्यादि, द्वाभ्यां स्थानाभ्यां गुणाभ्यां सम्पन्नो युक्तो नास्यागारं गेहमस्तीत्यनगारः साधुः, नास्त्यादिरस्येत्यनादिकं तत्, अवदग्रं पर्यन्तः, तन्नास्ति यस्य सामान्यजीवापेक्षया तदनवदनं तत्, दीर्घा अद्धा कालो यस्य तद् दीर्घाद्धं तत्, मकार आगमिकः, दी? वाऽध्वा मार्गो यस्मिंस्तद्दीर्घाध्वं तच्चतुरन्तं चतुर्विभागं नरकादिगतिविभागेन, दीर्घत्वं प्रकटादित्वादिति, संसारकान्तारं भवारण्यं व्यतिव्रजेद् अतिक्रामेत्, तद्यथा-- विद्यया चैव ज्ञानेन चैव चरणेन चैव चारित्रेण चैवेति, इह च संसारकान्तारव्यतिव्रजनं प्रति विद्या-चरणयोर्योगपद्येनैव कारणत्वमवगन्तव्यम्, एकैकशो विद्या-क्रिययोरैहिकार्थेष्वप्यकारणत्वात् ।
नन्वनयो: कारणतया अविशेषाभिधानेऽपि प्रधानं ज्ञानमेव न चरणम्, अथवा ज्ञानमेवैकं कारणं न तु क्रिया, यतो ज्ञानफलमेवासौ । किञ्च, यथा क्रिया ज्ञानस्य फलं तथा शेषमपि यत् क्रियानन्तरमवाप्यते, बोधकालेऽपि यज्ज्ञेयपरिच्छेदात्मकं यच्च रागादिविनिग्रहमयमेषामविशेषेण ज्ञानं कारणम्, यथा मृत्तिका घटस्य कारणं भवन्तीत्यादिविस्तरो वृत्तौ।
[सू० ५४] दो ठाणाई अपरियाणित्ता आया णो केवलिपन्नत्तं धम्मं लभेज सवणयाए, तंजहा-आरंभे चेव परिग्गहे चेव १। दो ठाणाई अपरियाणित्ता