________________
द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः । तादृशस्त्वमिति, पुरुषादिविप्रतारणबुद्ध्यैव वाऽजीवं भणत्येतादृशमेतदिति यत् सा जीववेयारणियाऽजीववेयारणिया व त्ति । एतत् सर्वमतिदेशेनाह – जहेव नेसत्थिय त्ति ३०। __ अन्यथा वा द्वे- अणाभोगवत्तिया चेव त्ति अनाभोग: अज्ञानं प्रत्ययो निमित्तं यस्याः सा, तथा अणवकंखवत्तिया चेव त्ति अनवकाङ्क्षा स्वशरीराद्यनपेक्षत्वम्, सैव प्रत्ययो यस्याः साऽनवकाङ्क्षाप्रत्ययेति ३१।। __ आद्या द्विधा- अणाउत्तआइयणया चेव त्ति अनायुक्तः अनाभोगवान् अनुपयुक्त इत्यर्थः, तस्याऽऽदानता वस्त्रादिविषये ग्रहणता अनायुक्तादानता, तथा अणाउत्तपमज्जणया चेव त्ति अनायुक्तस्यैव पात्रादिविषया प्रमार्जनता अनायुक्तप्रमार्जनता, इह च ताप्रत्ययः स्वार्थिकः प्राकृतत्वेन आदानादीनां भावविवक्षया वेति ३२। __द्वितीयाऽपि द्विविधा- आयसरीरेत्यादि, तत्रात्मशरीरानवकाङ्क्षाप्रत्यया स्वशरीरक्षतिकारिकर्माणि कुर्वतः, तथा परशरीरक्षतिकराणि तु कुर्वतो द्वितीयेति ३३।।
दो किरियेत्यादि त्रीणि सूत्राणि कण्ठ्यानि, नवरं प्रेम रागो माया-लोभलक्षणः, द्वेषः क्रोध-मानलक्षण इति ३६। यदत्र न व्याख्यातं तत् सुगमत्वादिति ।
सू० ५१] दुविहा गरहा पन्नत्ता, तंजहा-मणसा वेगे गरहति, वयसा वेगे गरहति । __अहवा गरहा दुविहा पन्नत्ता, तंजहा-दीहं पेगे अद्धं गरहति, रहस्सं पेगे अद्धं गरहति ।
[टी०] एताश्च क्रियाः प्रायो गर्हणीया इति गर्हामाह- दुविहा गरहेत्यादि, विधानं विधा, द्वे विधे भेदौ यस्याः सा द्विविधा, गर्हणं गर्दा दुश्चरितं प्रति कुत्सा, सा च स्व-परविषयत्वेन द्विविधा, साऽपि मिथ्यादृष्टेरनुपयुक्तसम्यग्दृष्टे श्च द्रव्यगर्हा, अप्रधानगर्हेत्यर्थः, द्रव्यशब्दस्याप्रधानार्थत्वाद्, उक्तं च
अप्पाहन्ने वि इहं कत्थइ दिट्ठो हु दव्वसद्दो त्ति । अंगारमद्दओ जह दव्वायरिओ सयाऽभव्वो ॥ [पञ्चा० ६।१३] त्ति ।