________________
___ दो किरियाओ पन्नत्ताओ, तंजहा-आणवणिया चेव वेतारणिया चेव, जहेव णेसत्थिया । ___ दो किरियाओ पन्नत्ताओ, तंजहा-अणाभोगवत्तिया चेव अणवकंखवत्तिया चेव । अणाभोगवत्तिया किरिया दुविहा पन्नत्ता, तंजहा-अणाउत्तआइयणता चेव अणाउत्तपमजणता चेव । अणवकंखवत्तिया किरिया दुविहा पन्नत्ता, तंजहा-आयसरीरअणवकंखवत्तिया चेव परसरीरअणवकंखवत्तिया चेव ।
दो किरियाओ पन्नत्ताओ, तंजहा-पिज्जवत्तिया चेव दोसवत्तिया चेव । पेजवत्तिया किरिया दुविहा पन्नत्ता, तंजहा-मायावत्तिया चेव लोभवत्तिया चेव। दोसवत्तिया किरिया दुविहा पन्नत्ता, तंजहा-कोहे चेव माणे चेव।
[टी०] बन्धादयश्च क्रियायां सत्यामात्मनो भवन्तीति क्रियानिरूपणायाह- दो किरियेत्यादिसूत्राणि षट्त्रिंशत्, करणं क्रिया क्रियत इति वा क्रियेति, ते च द्वे प्रज्ञप्ते प्ररूपिते जिनैः, तत्र जीवस्य क्रिया व्यापारो जीवक्रिया, तथा अजीवस्य पुद्गलसमुदायस्य यत् कर्मतया परिणमनं सा अजीवक्रियेति, इह चेवशब्दस्य चेयशब्दस्य वा पाठान्तरे प्राकृतत्वाद् द्विर्भाव इति, चेवेत्ययं समुदायमात्र एव प्रतीयते ‘अपिचे' त्यादिवदिति १।
जीवकिरियेत्यादि, सम्यक्त्वं तत्त्वश्रद्धानम्, तदपि जीवव्यापारत्वात् क्रिया सम्यक्त्वक्रिया, एवं मिथ्यात्वक्रियाऽपि, नवरं मिथ्यात्वम् अतत्त्वश्रद्धानम्, तदपि जीवव्यापार एवेति । अथवा सम्यग्दर्शन-मिथ्यात्वयोः सतोर्ये भवतः ते सम्यक्त्वमिथ्यात्वक्रिये इति । __अजीवकिरियेत्यादि, तत्र ईरियावहिय त्ति ईरणमीर्या गमनम्, तद्विशिष्टः पन्था ईर्यापथः, तत्र भवा ऐर्यापथिकी, व्युत्पत्तिमात्रमिदम्, प्रवृत्तिनिमित्ततस्तु यत् केवलयोगप्रत्ययमुपशान्तमोहादित्रयस्य सातवेदनीयकर्मतया अजीवस्य पुद्गलराशेर्भवनं सा ऐर्यापथिकी क्रिया, इह जीवव्यापारेऽप्यजीवप्रधानत्वविवक्षयाऽजीवक्रियेयमुक्ता । कर्मविशेषो वैर्यापथिकी क्रियोच्यते, यतोऽभिहितम्- इरियावहिया किरिया दुविहा बज्झमाणा वेइज्जमाणा य, जाव पढमसमये बद्धा बीयसमये वेइया सा बद्धा पुट्ठा वेइया णिज्जिण्णा सेयकाले अकम्मं चावि भवती [आव० हारि० ] ति । तथा सम्परायाः