________________
३०
__ [टी०] तारा पुद्गलरूपेति पुद्गलस्वरूपमभिधातुमाह- एगपएसोगाढेत्यादि सुगमम्, नवरमेकत्र प्रदेशे क्षेत्रस्यांशविशेषे अवगाढा: आश्रिता एकप्रदेशावगाढाः, ते च परमाणुरूपाः स्कन्धरूपा वेति, एवं वर्ण ५गन्ध २ रस ५ स्पर्श ८ भेदविशिष्टाः पुद्गला वाच्याः, अत एवोक्तम्-जाव एगगुणलुक्खेत्यादि । तदेवमनुगमोऽभिहितः । अन्यो विस्तरो वृत्तितो ज्ञेयः। इति श्रीमत्तपागच्छाधिराजभट्टारकपुरन्दरसूरीश्वरश्रीविजयसेनसूरिराज्ये
श्रीमत्तपागच्छश्रृंगारहारसूरीश्वरश्रीविजयदेवसूरियौवराज्ये पण्डितश्रीकुशलवर्धनगणिशिष्यनगर्षिगणिना स्ववाचनपरोपकारकृते कृतोद्धाररूपयां श्रीसकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिभिः संशोधितायां सुखावबोधायां श्रीस्थानाङ्गदीपिकायां प्रथममेकस्थानकाभिधानमध्ययन
समाप्तम्।