SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ३२ अथ द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः । [सू० ४९] नमो सुयदेवयाए भगवईए। जदत्थि णं लोगे तं सव्वं दुपओआरं, तंजहा- जीव च्चेव अजीव च्चेव । [१] तस च्वेव थावर च्वेव १, सजोणिय च्वेव अजोणिय च्चेव २, साउय च्चेव अणाउय च्चेव ३, सइंदिय च्चेव अणिंदिय च्चेव ४, सवेयगा चेव अवेयगा चेव ५, सरूवि चेव अरूवि चेव ६, सपोग्गला चेव अपोग्गला चेव ७, संसारसमावन्नगा चेव असंसारसमावन्नगा चेव ८, सासया चेव असासया चेव ९। [२] आगासे चेव नोआगासे चेव । धम्मे चेव अधम्मे चेव । बंधे चेव मोक्खे चेव । पुन्ने चेव पावे चेव । आसवे चेव संवरे चेव । वेयणा चेव निजरा चेव । __ [टी०] अथ सङ्ख्याक्रमसम्बद्धमेव द्विस्थानकाख्यं द्वितीयमध्ययनमारभ्यते, अस्य चायं विशेषसम्बन्धः- इह जैनानां सामान्यविशेषात्मकं वस्तु, तत्र सामान्यमाश्रित्य प्रथमाध्ययने आत्मादिवस्त्वेकत्वेन प्ररूपितमिह तु विशेषाश्रयणात् तदेव द्विविधत्वेन प्ररूप्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति इत्यादि वृतितो ज्ञेयम्। साम्प्रतं सूत्रं तच्चेदं– यद् जीवादिकं वस्तु अस्ति विद्यते, णमिति वाक्यालङ्कारे, क्वचित् पाठो जदत्थिं च णं ति, तत्रानुस्वार आगमिकः, चशब्दः पुनरर्थः, एवं चास्य प्रयोगः- अस्त्यात्मादि वस्तु, पूर्वाध्ययनप्ररूपितत्वाद्, यच्चास्ति लोके पञ्चास्तिकायात्मके, लोक्यते प्रमीयत इति लोक इति व्युत्पत्त्या लोकालोकरूपे वा, तत् सर्वं निरवशेषं द्वयोः पदयोः स्थानयोः पक्षयोर्विवक्षितवस्तुतद्विपर्ययलक्षणयोरवतारो यस्य तद् द्विपदावतारमिति । दुपडोयारं ति क्वचित् पठ्यते, तत्र द्वयोः प्रत्यवतारो यस्य तत् द्विप्रत्यवतारमिति, स्वरूपवत् प्रतिपक्षवच्चेत्यर्थः । तद्यथेत्युदाहरणोपन्यासे, जीव च्चेव अजीव च्चेव त्ति, जीवाश्चैवाऽजीवाश्चैव, प्राकृतत्वात् संयुक्तपरत्वेन ह्रस्वः, चकारौ समुच्चयार्थी, एवकाराववधारणे, तेन च
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy