________________
२८
उत्कर्षन्तीत्युत्कर्षाः उत्कर्षवन्तः उत्कृष्टसङ्ख्याः परमानन्ताः प्रदेशा: अणवस्ते सन्ति येषां ते उत्कर्षप्रदेशिकाः, तेषाम्, जघन्याश्च उत्कर्षाश्च जघन्योत्कर्षाः, न तथा ये ते अजघन्योत्कर्षाः, मध्यमा इत्यर्थः, ते प्रदेशाः सन्ति येषां ते अजघन्योत्कर्षप्रदेशिकाः, तेषाम्, एतेषां चानन्तवर्गणत्वेऽप्यजघन्योत्कर्ष-शब्दव्यपदेश्यत्वादेकवर्गणत्वमिति । जहन्नोगाहणगाणं ति अवगाहन्ते आसते यस्यां साऽवगाहना क्षेत्रप्रदेशरूपा, सा जघन्या येषां ते स्वार्थिकप्रत्ययाज्जघन्यावगाहनकाः, तेषाम्, एकप्रदेशावगाढानामित्यर्थः, उत्कर्षावगाहनकानामसङ्ख्यातप्रदेशावगाढानामित्यर्थः, अजघन्योत्कर्षावगाहनकानां सङ्ख्येयासङ्ख्येयप्रदेशावगाढानामित्यर्थः । जघन्या जघन्यसङ्ख्या समयापेक्षया स्थितिर्येषां ते जघन्यस्थितिकाः, एकसमय-स्थितिकाः इत्यर्थः, तेषाम्, उत्कर्षा उत्कर्षवत्सङ्ख्या समयापेक्षया स्थितिर्येषां ते तथा, तेषाम्, असङ्ख्यातसमयस्थितिकानामित्यर्थः, तृतीयं कण्ठ्यम्, जघन्येन जघन्यसङ्ख्याविशेषेणैकेनेत्यर्थः गुणो गुणनं ताडनं यस्य स तथा विधः कालो वर्णो येषां ते जघन्यगुणकालकाः, तेषाम्, एवमुत्कर्षगुणकालकानामनन्तगुणकालकानामित्यर्थः, एवं भावसूत्राण्यपि षष्टिभवनीयानीति ।
[सू० ४४] एगे जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं जाव अद्धंगुलगं च किंचिविसेसाधिए परिक्खेवेणं ।
[टी०] सामान्यस्कन्धवर्गणैकत्वाधिकारादेवाजघन्योत्कर्षप्रदेशिकस्याजघन्योत्कर्षप्रदेशावगाढस्य स्कन्धविशेषस्यैकत्वमाह- एगे जंबुद्दीवेत्यादि । जम्ब्वा वृक्षविशेषेणोपलक्षितो द्वीपः जम्बूद्वीपः, द्वीप इति सामान्यम्, यावद्ग्रहणादेवं सूत्रं द्रष्टव्यम्'सव्वब्भंतरए सव्वखुड्डाए वट्टे तेल्लापूयसंठाणसंठिए इत्यादि सुगममेतत्, उक्तविशेषणश्च जम्बूद्वीप एक एव, अन्यथा अनेकेऽपि ते सन्तीति ।।
[सू० ४५] एगे समणे भगवं महावीरे इमीसे ओसप्पिणीए चउव्वीसाए तित्थगराणं चरिमतित्थगरे सिद्ध बुद्धे मुत्ते जाव सव्वदुक्खप्पहीणे ।
[टी०] अनन्तरं जम्बूद्वीप उक्त इति तत्प्ररूपकस्य भगवतो महावीरस्यैकतामाहएगे समणे इत्यादि, एकः असहायः, अस्य च सिद्ध इत्यादिना सम्बन्धः, उक्तं च -