________________
प्रथममध्ययनम् एकस्थानकम् ।
अजहन्नुक्कस्सट्टितीयाणं ३, जहन्नगुणकालगाणं उक्कस्स-गुणकालयाणं अजहन्नुक्कस्सगुणकालगाणं, एवं वण्ण-गंध-रस-फासाणं वग्गणा भाणियव्वा, जाव एगा अजहन्नुक्कस्सगुणलुक्खाणं पोग्गलाणं वग्गणा ४।।
[टी०] इतो द्रव्य-क्षेत्र-काल-भावानाश्रित्य पुद्गलवर्गणैकत्वं चिन्त्यते-- पूरणगलनधर्माणः पुद्गलाः, ते च स्कन्धा अपि स्युरिति विशेषयति- परमाणवो निष्प्रदेशास्ते च पुद्गलाश्चेति विग्रहः, तेषाम्, एवंकरणात् ‘दुपएसियाणं खंधाणं तिचउ-पंच-छ-सत्त-ऽट्ठ-नव-दस-संखेज्जपएसियाणं असंखेज्जपएसि-याण'मिति दृश्यमिति।
कृता द्रव्यतः पुद्गलचिन्ता, अतः क्षेत्रतः क्रियते– एगा एगपएसेत्यादि, एकस्मिन् प्रदेशे क्षेत्रस्यावगाढाः अवस्थिता एकप्रदेशावगाढाः, तेषाम्, ते च परमाण्वादयोऽनन्तप्रदेशिकस्कन्धान्ताः स्युः, अचिन्त्यत्वात् द्रव्यपरिणामस्य, यथा पारदस्यैकेन कर्षेण चारिताः सुवर्णस्य ते सप्ताप्येकीभवन्ति, पुनर्वामिताः प्रयोगतः सप्तैव त इति । जाव एगा असंखेज्जपएसोगाढाणं ति, अनन्तप्रदेशावगाहित्वं तु नास्ति पुद्गलानाम्, लोकलक्षणस्यावगाहक्षेत्रस्याप्यसङ्ख्येयप्रदेशत्वादिति । कालत आह– एगा एगसमएत्यादि, एकं समयं यावत् स्थितिः परमाणुत्वादिना एकप्रदेशावगाढादित्वेन एकगुणकालादित्वेन वाऽवस्थानं येषां ते एकसमयस्थितिकाः, तेषामिति, इह च अनन्तसमयस्थितेः पुद्गलानामसम्भावाद् असंखेज्जसमयट्टितीयाणमित्युक्तमिति । भावतः पुद्गलानाह- एगगुणेत्यादि, एकेन गुणो गुणनं ताडनं यस्य स एकगुणः, एकगुणः कालो वर्णो येषां ते एकगुणकालकाः, तारतम्येन कृष्णतर-कृष्णतमादीनां येभ्य आरभ्य प्रथममुत्कर्षप्रवृत्तिर्भवतीति भावः, तेषाम् । एवं सर्वाण्यपि भावसूत्राणि षष्ट्यधिकद्विशतप्रमाणानि वाच्यानि २६०, विंशतेः कृष्णादिभावानां त्रयोदशभिगुणनादिति। ___साम्प्रतं भङ्गयन्तरेण द्रव्यादिविशेषितानां जघन्यादिभेदभिन्नानां स्कन्धानां वर्गणैकत्वमाह- एगा जहन्नेत्यादि, जघन्याः सर्वाल्पाः प्रदेशा: परमाणवस्ते सन्ति येषां ते जघन्यप्रदेशिकाः, व्यणुकादय इत्यर्थः, स्कन्धाः अणुसमुदायाः, तेषाम्,