________________
२४
कप्पे सणंकुमारे माहिंदे चेव बंभलोए य । एएसु पम्हलेसा तेण परं सुक्कलेसा उ ॥ [बृहत्सं० १९४] पुढवी आउ वणस्सइ बायर पत्तेय लेस चत्तारि । गब्भयतिरियनरेसुं छल्लेसा तिन्नि सेसाणं ॥ [बृहत्सं० ३४२]
अयं सामान्यो लेश्यादण्डकः ५ । अयमेव भव्याभव्यविशेषादन्यः- एगा कण्हलेसाणं भवसिद्धियाणं वग्गणेत्यादि । एवमिति कृष्णलेश्यायामिव छसु वि त्ति कृष्णया सह षट्सु, अन्यथा अन्या पञ्चैवातिदेश्या भवन्तीति, द्वे द्वे पदे प्रतिलेश्यं भव्याभव्यलक्षणे वाच्ये, यथा ‘एगा नीललेसाणं भवसिद्धियाणं वग्गणे'त्यादि ६ ।
लेश्यादण्डक एव दर्शनत्रयविशेषितोऽन्यः- एगा कण्हलेसाणं सम्मद्दिट्ठियाणमित्यादि, जेसिं जइ दिट्ठीओ त्ति येषां नारकादीनां या यावत्यो दृष्टयः सम्यक्त्वाद्यास्तेषां ता वाच्या इति, तत्र एकेन्द्रियाणां मिथ्यात्वमेव, विकलेन्द्रियाणां सम्यक्त्व-मिथ्यात्वे, शेषाणां तिम्रोऽपि दृष्टय इति ७ । लेश्यादण्डक एव कृष्णशुक्लपक्षविशिष्टोऽन्यः- एगा कण्हलेसाणं कण्हपक्खियाणमित्यादि । एते अट्ठ चउवीस दंडय त्ति, ते चैवम्
ओहो १, भव्वाईहिं विसेसिओ २, दंसणेहिं ३, पक्खेहिं ४ । लेसाहिं ५, भव्व ६, दंसण ७, पक्खेहिं विसिट्ठलेसाहिं ८॥ [ ] ति । [सू० ४२] एगा तित्थसिद्धाणं वग्गणा, एगा अतित्थसिद्धाणं वग्गणा, एवं जाव एगा एक्कसिद्धाणं वग्गणा, एगा अणेक्कसिद्धाणं वग्गणा । एगा पढमसमयसिद्धाणं वग्गणा, एवं जाव अणंतसमयसिद्धाणं वग्गणा ।
[टी०] इतः सिद्धवर्गणा अभिधीयन्ते- तत्र सिद्धा द्विधा अनन्तरसिद्धपरम्परसिद्धभेदात्, तत्रानन्तरसिद्धाः पञ्चदशविधाः, तद्वर्गणैकत्वमाह- एगा तित्थेत्यादिना, तत्र तीर्यतेऽनेनेति तीर्थम्, द्रव्यतो नद्यादीनां समोऽनपायश्च भूभागो भौतादिप्रवचनं वा, द्रव्यतीर्थता त्वस्याप्रधानत्वाद्, अप्रधानत्वं च भावतस्तरणीयस्य संसारसागरस्य तेन तरीतुमशक्यत्वात्, सावद्यत्वादस्येति, भावतीर्थं तु सङ्घो यतो ज्ञानादिभावेन तद्विपक्षादज्ञानादितो भवाच्च भावभूतात् तारयतीति, आह च
जं णाण-दसण-चरित्तभावओ तव्विवक्खभावाओ । भवभावओ य तारेइ तेण तं भावओ तित्थं ॥ [विशेषाव० १०३३] ति ।