________________
प्रथममध्ययनम् एकस्थानकम् । त्रिषु वा क्रोधाग्निदाहोपशम-लोभतृष्णानिरास-कर्ममलापनयनलक्षणेषु ज्ञानादिलक्षणेषु वा अर्थेषु तिष्ठतीति त्रिस्थम्, प्राकृतत्वात् तित्थं, आह चदाहोवसमादिसु वा जं तिसु थियमहव दंसणाईसुं । तो तित्थं संघो च्चिय उभयं च विसेसणविसेसं ॥ [विशेषाव० १०३५] ति । तत्र तीर्थे सति सिद्धाः निर्वृतास्तीर्थसिद्धा ऋषभसेनगणधरादिवत्, तेषां वर्गणेति १। तथा अतीर्थे तीर्थान्तरे साधुव्यवच्छेदे जातिस्मरणादिना प्राप्तापवर्गमार्गा मरुदेवीवत् सिद्धा अतीर्थसिद्धास्तेषाम् २ । एवंकरणात् ‘एगा तित्थगरसिद्धाणं वग्गणे'त्यादि दृश्यम्, तीर्थमुक्तलक्षणम्, तत् कुर्वन्तीति तीर्थकराः ।
तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धा ऋषभादिवत्, तेषाम् ३, अतीर्थकरसिद्धाः सामान्यकेवलिनः सन्तो ये सिद्धा गौतमादिवत्, तेषाम् ४, तथा स्वयम् आत्मना बुद्धाः तत्त्वं ज्ञातवन्तः स्वयम्बुद्धास्ते सन्तो ये सिद्धास्ते तथा, तेषाम् ५, तथा प्रतीत्यैकं किञ्चित् वृषभादिकं अनित्यतादिभावनाकारणं वस्तु बुद्धाः बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धास्ते सन्तो ये सिद्धास्ते तथा, तेषाम् ६, स्वयम्बुद्धप्रत्येकबुद्धानां च बोध्युपधि-श्रुत-लिङ्गकृतो विशेषः, तथाहि- स्वयम्बुद्धानां बाह्यनिमित्तमन्तरेणैव बोधिः, प्रत्येकबुद्धानां तु तदपेक्षया, करकण्ड्वादीनामिवेति । उपधिः स्वयम्बुद्धानां पात्रादिभदशविधः, तद्यथा
पत्तं १ पत्ताबंधो २ पायट्ठवणं ३ च पायकेसरिया ४ । पडलाइं ५ रयत्ताणं च ६ गोच्छओ ७ पायनिज्जोगो ॥ तिन्नेव य पच्छागा १० रयहरणं ११ चेव होइ मुहपोत्ति १२[ओघनि० ६६८-६६९] त्ति। प्रत्येकबुद्धानां तु नवविधः प्रावरणवज इति । स्वयम्बुद्धानां पूर्वाधीते श्रुते अनियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव । लिङ्गप्रतिपत्तिः स्वयम्बुद्धानामाचार्यसन्निधावपि भवति, प्रत्येकबुद्धानां तु देवता प्रयच्छतीति । बुद्धबोधिताः आचार्यादिबोधिताः सन्तो ये सिद्धास्ते, तेषाम् ७ । एतेषामेव स्त्रीलिङ्गसिद्धानां ८ पुंलिङ्गसिद्धानां ९ नपुंसकलिङ्गसिद्धानां १० स्वलिङ्गसिद्धानां रजोहरणाद्यपेक्षया ११ अन्यलिङ्गसिद्धानां परिव्राजकादिलिङ्गसिद्धानां १२ गृहिलिङ्गसिद्धानां मरुदेवीप्रभृतीनाम् १३ एकसिद्धानामेकैकस्मिन् समये एकैकसिद्धानाम् १४