SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ २३ प्रथममध्ययनम् एकस्थानकम् । पुनर्योगपरिणामो लेश्या ?, यस्मात् सयोगिकेवली शुक्ललेश्यापरिणामेन विहत्यान्तर्मुहूर्ते शेषे योगनिरोधं करोति ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति,अतोऽवगम्यते योगपरिणामो लेश्येति, स पुनर्योगः शरीरनामकर्मपरिणतिविशेषः, यस्मादुक्तम्- कर्म हि कार्मणस्य कारणमन्येषां च शरीराणाम् [ ] इति, तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः १, तथौदारिक-वैक्रिया-ऽऽहारकशरीरव्यापाराहृतवागद्रव्यसमूहसाचिव्यात् जीवव्यापारो यः स वाग्योग: २, तथौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्यात् जीवव्यापारो यः स मनोयोग इति ३, ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्यापीति [प्रज्ञापनावृ० १७।२] । अन्ये तु व्याचक्षते- कर्मनिस्यन्दो लेश्या [ ] इति। ___सा च द्रव्य-भावभेदात् द्विधा, तत्र द्रव्यलेश्या कृष्णादिद्रव्याण्येव, भावलेश्या तु तज्जन्यो जीवपरिणाम इति । इयं च षट्प्रकारा जम्बूफलखादकपुरुषषट्कदृष्टान्ताद् ग्रामघातकचौरपुरुषषट्कदृष्टान्ताद्वा आगमप्रसिद्धादवसेयेति । तत्सूत्राणि सुगमानि, नवरं कृष्णवर्णद्रव्यसाचिव्यात् जाताऽशुभपरिणामरूपा कृष्णा [सा] लेश्या येषां ते तथा, एवं शेषाण्यपि पदानि, नवरं नीला ईषत्सुन्दररूपा। एवमिति अनेनैव क्रमेण यावत्करणात् ‘एगा कवोयलेसाण'मित्यादि सूत्रत्रयं दृश्यम्, तत्र कपोतस्य पक्षिविशेषस्य वर्णेन तुल्यानि यानि द्रव्याणि, धूम्राणि इत्यर्थः, तत्साहाय्यजाता कापोतलेश्या मनाक् शुभतरा, सा लेश्या येषां ते तथा, तेजः अग्निज्वाला, तद्वर्णानि यानि द्रव्याणि, लोहितानीत्यर्थः, तत्साचिव्यजाता तेजोलेश्या शुभस्वभावा, पद्मगर्भवर्णानि यानि द्रव्याणि, पीतानीत्यर्थः तत्साचिव्यजाता पद्मलेश्या शुभतरा, शुक्लवर्णद्रव्यजनिता शुक्ललेश्या, अत्यन्तशुभेति, एतासां च विशेषतः स्वरूपं लेश्याध्ययनादवसेयमिति । एवं जस्स जइ त्ति नारकाणामिव यस्याऽसुरादेर्या यावत्यो लेश्यास्तदुद्देशेन तद्वर्गणैकत्वं वाच्यम् । भवणेत्यादिना तल्लेश्यापरिमाणमाह । अत्र सङ्ग्रहणी काऊ नीला किण्हा लेसाओ तिन्नि होंति नरएसु ।। तइयाए काउनीला पृथिव्यामित्यर्थः नीला किण्हा य रिट्ठाए पञ्चम्यामित्यर्थः॥ [बृहत्सं०२८८] किण्हा नीला काऊ तेऊलेसा य भवण-वंतरिया । जोइससोहम्मीसाणे तेऊलेसा मुणेयव्वा ॥ [बृहत्सं० १९३]
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy