________________
येषां ते सम्यग्दृष्टिकाः, ते च मिथ्यात्वमोहनीयक्षय-क्षयोपशमोपशमेभ्यो भवन्ति, तथा मिथ्या विपर्यासवती जिनाभिहितार्थसार्थाश्रद्धानवती दृष्टिः दर्शनं श्रद्धानं येषां ते मिथ्यादृष्टिकाः, मिथ्यात्वमोहनीयकर्मोदयादरुचितजिनवचना इति भावः, उक्तं च
सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । । मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् ॥ [ ] इति । तथा सम्यक् च मिथ्या च दृष्टिर्येषां ते सम्यग्मिथ्यादृष्टिकाः, जिनोक्तभावान् प्रत्युदासीनाः इति सम्यग्दृष्टि-मिथ्यादृष्टिमिश्रविशेषितोऽन्यो दण्डकः, तत्र च नारकादिष्वेकादशसु पदेषु दर्शनत्रयमप्यस्ति, अत उक्तम्- एवं जाव थणिएत्यादि, पृथिव्यादीनां मिथ्यात्वमेव, तेन तेषां तेनैव व्यपदेशः, उक्तं च-चोद्दस तस सेसया मिच्छ [जीवसमा०२६] त्ति, चतुर्दशगुणस्थानकवन्तस्त्रसाः, स्थावरास्तु मिथ्यादृष्टय एवेत्यर्थः । द्वीन्द्रियादीनां मिश्रं नास्ति, संज्ञिनामेव तद्भावात्, ततस्तेषु सम्यग्दृष्टि-मिथ्यादृष्टितयैव व्यपदेशः । एवं तेइंदियाण वि चउरिंदियाण वि त्ति द्वीन्द्रियवद् व्यपदेशद्वयेन वर्गणैकत्वं वाच्यम्, पञ्चेन्द्रियतिर्यगादीनां दर्शनत्रयमप्यस्ति ततस्त्रिधाऽपि तद्व्यपदेश:, अत एवोक्तम्- सेसा जहा नेरइय त्ति, तथा वाच्या इति शेष:, दण्डकपर्यन्तसूत्रं पुनरिदम् [एगा सम्मद्दिट्ठियाणं वेमाणियाणं वग्गणा, एवं मिच्छद्दिट्ठियाणं एवं सम्मामिच्छदिट्ठियाणं', एतत्पर्यन्तमाह-] जाव एगा सम्मामिच्छेत्यादि ३ ।।
एगा कण्हपक्खियाणं इत्यादि, कृष्णपाक्षिकेतरयोर्लक्षणम् - जेसिमवड्डो पोग्गलपरियट्टो सेसओ उ संसारो । ते सुक्कपक्खिया खलु अहिए पुण किण्हपक्खीय ॥ [श्रावकप्र० ७२] त्ति । एतद्विशेषितोऽन्यो दण्डक: ४। एगा कण्हलेसाणमित्यादि, लिश्यते प्राणी कर्मणा यया सा लेश्या, यदाह - श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः ॥ [प्रशम० ३८], तथा कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रयुज्यते ॥ [ ] इति ।
इयं च शरीरनामकर्मपरिणतिरूपा योगपरिणतिरूपत्वात्, योगस्य च शरीरनामकर्मपरिणतिविशेषत्वात्, यत उक्तं प्रज्ञापनावृत्तिकृता- योगपरिणामो लेश्या, कथं