________________
प्रथममध्ययनम् एकस्थानकम् ।
____ २१
सुक्कपक्खियाणं वग्गणा, जाव वेमाणियाणं, जस्स जति लेसाओ । एए अट्ठ चउवीसदंडया ।। ___ [टी०] कृता जीव-पुद्गल-काललक्षणद्रव्यविविधधर्मविशेषाणामेकत्वप्ररूपणा, अधुना संसारि-मुक्तजीव-पुद्गलद्रव्यविशेषाणां नारक-परमाण्वादीनां समुदायलक्षणधर्मस्य एगा नेरइयाणं वग्गणेत्यादिना ऽऽह । तत्र नेरइयाणं ति निर्गतम् अविद्यमानमयम् इष्टफलं कर्म येभ्यस्ते निरयाः, तेषु भवा नैरयिकाः क्लिष्टसत्त्वविशेषाः, ते च पृथिवी-प्रस्तट-नरकावासस्थिति-भव्यत्वादिभेदादनेकविधास्तेषां सर्वेषां वर्गणा वर्गः समुदायः, तस्याश्चैकत्वं सर्वत्र नारकत्वादिपर्यायसाम्यादिति। तथा असुराश्च ते नवयौवनतया कुमारा इव कुमाराश्चेत्यसुरकुमारास्तेषामेका वर्गणेति, चउवीसदंडउ त्ति चतुर्विंशतिपदप्रतिबद्धो दण्डको वाक्यपद्धतिश्चतुर्विंशतिदण्डकः, स इह वाच्य इति शेषः, स चायम्
नेरइया १ असुरादी १० पुढवाई ५ बेंदियादयो चेव ४ । नर १ वंतर १ जोतिसिया १ वेमाणी १ दंडओ एवं ॥ [ ] भवनपतयो दशधाअसुरा नाग सुवण्णा विज्जू अग्गी य दीव उदही य । दिसि पवण थणियनामा दसहा एए भवणवासि ॥ [प्रज्ञा० २।१३७] त्ति ।
एतदनुसारेण सूत्राणि वाच्यानि । यावच्चतुर्विंशतितमम् एगा वेमाणियाणं वग्गण त्ति, एष सामान्यदण्डकः १। ___एगा भवसिद्धियेत्यादि, भविष्यतीति भवा भाविनी, सा सिद्धिः निर्वृतिर्येषां ते भवसिद्धिका भव्याः, तद्विपरीतास्त्वभव्या इत्यर्थः । ननु जीवत्वे समाने सति को भव्या-ऽभव्ययोर्विशेषः ?, उच्यते, स्वभावकृतः, द्रव्यत्वेन समानयोर्जीव-नभसोरिव, आह चदव्वाइत्ते तुल्ले जीव-नभाणं सभावओ भेदो । जीवा-ऽजीवाइगओ जह तह भव्वेयरविसेसो ॥ [विशेषाव० १८२३] त्ति । आभ्यां विशेषितोऽन्यो दण्डकः २ । एगा सम्मद्दिट्ठियाणमित्यादि, सम्यग् अविपरीता दृष्टिः दर्शनं रुचिस्तत्त्वानि प्रति