________________
३७१
चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । पाणमंसोवमे, पुत्तमंसोवमे १। मणुस्साणं चउविहे आहारे पन्नत्ते, तंजहा-असणे जाव सातिमे २।
देवाणं चउव्विहे आहारे पन्नत्ते, तंजहा-वन्नमंते, गंधमंते, रसमंते, फासमंते ३।
[टी०] भोगसौख्यार्थं च प्रसर्पन्तः कर्म बद्ध्वा नारकत्वेनोत्पद्यन्त इति नारकानाहारतो निरूपयन्नाह– नेरइयाणमित्यादि व्यक्तम्, केवलम् अङ्गारोपमः अल्पकालदाहत्वात्, मुर्मुरोपमः स्थिरतरदाहत्वात्, शीतलः शीतवेदनोत्पादकत्वात्, हिमशीतलोऽत्यन्तशीतवेदनाजनकत्वात्, अधोऽध इति क्रम इति ।।
आहाराधिकारात् तिर्यग्-मनुष्य-देवानामाहारनिरूपणाय सूत्रत्रयं तिरिक्खजोणियाणं त्ति सुगमम्, नवरं कङ्कः पक्षिविशेषः, तस्याहारेणोपमा यत्र स मध्यपदलोपात् कङ्कोपमः, अयमर्थः- यथा हि कङ्कस्य दुर्जरोऽपि स्वरूपेणाहारः सुखभक्ष्यः सुखपरिणामश्च भवति एवं यस्तिरश्चां सुभक्षः सुखपरिणामश्च स कङ्कोपम इति । तथा बिले प्रविशद् द्रव्यं बिलमेव, तेनोपमा यत्र स तथा, बिले हि अलब्धरसास्वादं झगिति यथा किल किञ्चित् प्रविशति एवं यस्तेषां गलबिले प्रविशति स तथोच्यते। पाणो मातङ्गः, तन्मांसमस्पृश्यत्वेन जुगुप्सया दुःखाद्यं स्यादेवं यस्तेषां दुःखाद्यः स पाणमांसोपमः । पुत्रमांसं तु स्नेहपरतया दुःखाद्यतरं स्यादेवं यो दुःखाद्यतरः स पुत्रमांसोपमः। क्रमेण चैते शुभ-समा-ऽशुभाऽशुभतरा वेदितव्याः । देवाणं त्ति वर्णवानित्यादौ प्रशंसायामतिशायने वा मतुबिति।
[सू० ३४१] चत्तारि जातिआसीविसा पन्नत्ता, तंजहा-विच्छुतजाइआसीविसे मंडुक्कजाइआसीविसे उरगजातिआसीविसे मणुस्सजातिआसीविसे । विच्छुयजातिआसीविसस्स णं भंते ! केवतिए विसए पन्नत्ते ?, पभू णं विच्छुयजातिआसीविसे अड्ढभरहप्पमाणमत्तं बोंदिं विसेणं विसपरिणतं विसट्टमाणिं करेत्तए ? विसए से विसट्टताए, नो चेव णं संपत्तीए करेंसु वा करेंति वा करेस्संति वा । मंडुक्कजातिआसीविसस्स पुच्छा, पभू णं मंडुक्कजातिआसीविसे भरहप्पमाणमेत्तं बोंदि विसेणं विसपरिणयं विसट्टमाणिं, सेसं तं चेव जाव करेस्संति वा । उरगजातिपुच्छा, पभू णं उरगजातिआसीविसे