________________
३७२
जंबूदीवप्पमाणमेत्तं बोंदि विसेणं, सेसं तं चेव जाव करेस्संति वा । मणुस्सजातिपुच्छा, पभू णं मणुस्सजातिआसीविसे समयखेत्तप्पमाणमेत्तं बोंदि विसेणं विसपरिणतं विसट्टमाणिं करेत्तए ? विसते से विसट्टताते, नो चेव णं जाव करेस्संति वा ।
[टी०] आहारो हि भक्षणीय इति भक्षणाधिकारादासीविषसूत्रम्, सुगमं चेदम्, नवरम् आसीविस त्ति आस्यो दंष्ट्रास्तासु विषं येषां ते आसीविषाः, ते च कर्मतो जातितश्च, तत्र कर्मतस्तिर्यङ्-मनुष्याः कुतोऽपि गुणादासीविषाः स्युः, देवाश्चा सहस्राराच्छापादिना परव्यापादनादिति, उक्तं च
आसी दाढा तग्गयमहाविसाऽऽसीविसा दुविहभेया । ते कम्म-जाइभेएण णेगहा चउब्विहविगप्पा ॥ [विशेषाव० ७९१] इति ।
जातित आसीविषा जात्यासीविषाः वृश्चिकादयः । केवइय त्ति कियान् विषयो गोचरो विषस्येति गम्यते, प्रभुः समर्थः, अर्द्धभरतस्य यत् प्रमाणं सातिरेकत्रिषष्ट्यधिकयोजनशतद्वयलक्षणं तदेव मात्रा प्रमाणं यस्याः साऽर्द्धभरतप्रमाणमात्रा, तां बोंदिं शरीरं विषेण स्वकीयासीप्रभवेण करणभूतेन विषपरिणतां विषरूपापन्नां विषपरिगतामिति क्वचित् पाठः, तद्व्याप्तामित्यर्थः, विसट्टमाणिं विकसन्तीं विदलन्तीं कर्तुं विधातुम् । विषयः सः गोचरोऽसौ, अथवा से तस्य वृश्चिकस्य, विषमेवार्थो विषार्थस्तद्भावस्तत्ता तस्या विषार्थतायाः विषत्वस्य तस्यां वा, नो चेव त्ति नैवेत्यर्थः, सम्पत्त्या एवंविधबोन्दिसम्प्राप्तिद्वारेण, करिंसु त्ति अकापुर्वृश्चिका इति गम्यते, इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशो वृश्चिकासीविषाणां बहुत्वज्ञापनार्थम्, एवं कुर्वन्ति करिष्यन्ति, त्रिकालनिर्देशश्चामीषां त्रैकालिकत्वज्ञापनार्थः, समयक्षेत्रं मनुष्यक्षेत्रम् ।
[सू० ३४२] चउब्विहे वाही पन्नत्ते, तंजहा-वातिते, पित्तिते, सिंभिते, संनिवातिते ।
चउव्विहा तिगिच्छा पन्नत्ता, तंजहा-वेजो, ओसधाई, आउरे, परिचारते। चत्तारि तिगिच्छगा पन्नत्ता, तंजहा-आततिगिच्छते नाममेगे णो परतिगिच्छते