________________
३५२
च परिज्ञाता: संज्ञा आहारसंज्ञाद्या येन सोऽपरिज्ञातसंज्ञः, अभावितावस्थ: प्रव्रजित: श्रावको वेत्येक: । परिज्ञातसंज्ञः सद्भावनाभावितत्वात्, न परिज्ञातका कृष्याद्यनिवृत्तेः श्रावक इति द्वितीयः । तृतीय: साधुश्चतुर्थोऽसंयत इति । परिज्ञातकर्मा सावधकरणकारणा-ऽनुमतिनिवृत्त: कृष्यादिनिवृत्तो वा, न परिज्ञातगृहावासोऽप्रव्रजित इत्येकः । अन्यस्तु परिज्ञातगृहावासो न त्यक्तारम्भो दुष्प्रव्रजित इति द्वितीयः । तृतीयः साधुश्चतुर्थोऽसंयतः ।
त्यक्तसंज्ञो विशिष्टगुणस्थानकत्वादत्यक्तगृहावासो गृहस्थत्वादेकः १, अन्यस्तु परिहतगृहावासो यतित्वादभावितत्वान्न परिहतसंज्ञ: २, अन्य उभयथा ३, अन्यो नोभयथेति।
इहैव जन्मन्यर्थः प्रयोजनं भोगसुखादि आस्था वा इदमेव साध्विति बुद्धिर्यस्य स इहार्थ इहास्थो वा भोगपुरुष इहलोकप्रतिबद्धो वा १, परत्रैव जन्मान्तरे अर्थ आस्था वा यस्य स परार्थः परास्थो वा साधुर्बालतपस्वी वा २, इह च परत्र च यस्यार्थ आस्था वा स सुश्रावक उभयप्रतिबद्धो वा ३, उभयप्रतिषेधवान् सौकरिकादिर्मूढो वेति ४। अथवा इहैव विवक्षिते ग्रामादौ तिष्ठतीति इहस्थस्तत्प्रतिबन्धान परस्थः १, अन्यस्तु परत्र प्रतिबन्धात् परस्थ: २, अन्यस्तूभयस्थ: ३, अन्य: सर्वाप्रतिबद्धत्वादनुभयस्थ: साधुरिति ४।
एकेनेति श्रुतेन एकः कश्चिद्वर्द्धते, एकेनेति सम्यग्दर्शनेन हीयते, यथोक्तम्जह जह बहुस्सुओ संमओ य सीसगणसंपरिवुडो य। अविणिच्छिओ य समए तह तह सिद्धंतपडिणीओ। [सम्मति० ३।६६] इत्येकः । तथा एकेन श्रुतेनैवान्यो वर्द्धते, द्वाभ्यां सम्यग्दर्शन-विनयाभ्यां हीयते इति द्वितीयः। द्वाभ्यां श्रुता-ऽनुष्ठानाभ्यामन्यो वर्द्धते, एकेन सम्यग्दर्शनेन हीयते इति तृतीयः । द्वाभ्यां श्रुता-ऽनुष्ठानाभ्यामन्यो वर्द्धते, द्वाभ्यां सम्यग्दर्शन-विनयाभ्यां हीयत इति चतुर्थः। अथवा ज्ञानेन वर्द्धते रागेण हीयते इत्येकः, अन्यो ज्ञानेन वर्द्धते रागद्वेषाभ्यां हीयते इति द्वितीयः, अन्यो ज्ञान-संयमाभ्यां वर्द्धते रागेण हीयते इति तृतीय:, अन्यो ज्ञान-संयमाभ्यां वर्द्धते राग-द्वेषाभ्यां हीयत इति चतुर्थः ।