________________
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः ।
३५१ उभयानुपकारी च दुर्गत एव स्यादिति दुर्गतसूत्रम्, दुर्गतो दरिद्रः, पूर्वं धनविहीनत्वात् ज्ञानादिरत्नविहीनत्वाद्वा पश्चादपि तथैव दुर्गत एवेति, अथवा दुर्गतो द्रव्यत: पुनर्दुर्गतो भावत इति प्रथमः, एवमन्ये त्रयः, नवरं सुगतो द्रव्यतो धनी भावतो ज्ञानादिगुणवानिति।
दुर्गत: कोऽपि व्रती स्यादिति दुव्रतसूत्रम्, दुर्गतो दरिद्रः, दुव्रत: असम्यग्वतोऽथवा दुर्व्यय: आयानपेक्षव्यय: कुस्थानव्ययो वेत्येकः, अन्यो दुर्गत: सन् सुव्रतो निरतिचारनियम:, सुव्ययो वौचित्यप्रवृत्तेरिति, इतरौ प्रतीतौ। दुर्गतस्तथैव, दुष्प्रत्यानन्दः उपकृतेन कृतमुपकारं यो नाभिमन्यते, यस्तु मन्यते तं स सुप्रत्यानन्द इति ।।
दुर्गतो दरिद्रः सन् दुर्गतिं गमिष्यतीति दुर्गतिगामीत्येवमन्येऽपि, नवरं सुगतिं गमिष्यतीति सुगतिगामी । सुगत: ईश्वर इति । दुर्गतस्तथैव, दुर्गतिं गतः यात्राजनकुपिततन्मारणप्रवृत्तद्रमकवत्, एवमन्ये त्रयः । ___ तम इव तम: पूर्वमज्ञानरूपत्वादप्रकाशत्वाद्वा पश्चादपि तम एवेत्येकः, अन्यस्तु तमः पूर्वम्, पश्चाज्ज्योतिरिव ज्योतिरुपार्जितज्ञानत्वात् प्रसिद्धिप्राप्तत्वाद्वा, शेषौ सुज्ञानौ। तमः कुकर्मकारितया मलिनस्वभावः, तमः अज्ञानं बलं सामर्थ्य यस्य, तमः अन्धकारं वा तदेव तत्र वा बलं यस्य स तथा, असदाचारवानज्ञानी रात्रिचरो वा चौरादिरित्येकः। तथा तमस्तथैव, ज्योति: ज्ञानं बलं यस्य, आदित्यादिप्रकाशो वा ज्योतिस्तदेव तत्र वा बलं यस्य स तथा, अयं चासदाचारो ज्ञानवान् दिनचारी वा चौरादिरिति द्वितीयः। ज्योति: सत्कर्मकारितयोज्ज्वलस्वभावः, तमोबलस्तथैव, अयं च सदाचारवान् अज्ञानी कारणान्तराद्वा रात्रिचर इति तृतीयः । चतुर्थः सुज्ञान:, अयं च सदाचारवान् ज्ञानी दिनचरो वेति । __तथा तमस्तथैव, तमबलपलज्जणे त्ति तमो मिथ्याज्ञानम् अन्धकारं वा तदेव बलं तत्र, अथवा तमसि उक्तरूपे बले च सामर्थ्य प्ररज्यते रतिं करोतीति तमोबलप्ररञ्जन:, एवं ज्योतिर्बलप्ररञ्जनोऽपि, नवरं ज्योति: सम्यग्ज्ञानमादित्यादिप्रकाशो वेति, एवमितरावपि, इहापि त एव पूर्वसूत्रोक्ता: पुरुषविशेषाः प्ररञ्जनविशेषिता: द्रष्टव्याः । परिण्णाय त्ति परिज्ञातानि ज्ञपरिज्ञया स्वरूपतोऽवगतानि प्रत्याख्यानपरिज्ञया च परिहृतानि कर्माणि कृष्यादीनि येन सोऽपरिज्ञातकर्मा, नो न