________________
३४०
चत्तारि णिग्गंथीओ पन्नत्ताओ, तंजहा - रातिणिया समणी निग्गंथी एवं
चेव ४ ।
चत्तारि समणोवासगा पन्नत्ता, तंजहा - रायणिते समणोवासए महाकम्मे तहेव ४ ।
चत्तारि समणोवासियाओ पन्नत्ताओ, तंजहा - रायणिता समणोवासिता महाकम्मा तहेव चत्तारि गमा ।
[टी०] आचार्यसूत्रचतुर्थभङ्गे यो न प्रव्राजनया न चोत्थापनयाचार्यः स क इत्याहधर्माचार्य इति, प्रतिबोधक इत्यर्थः, आह च
धम्मो जेणुवइट्ठो सो धम्मगुरू गिही व समणो वा ।
को वि तिहिं संपत्तो दोहि वि एक्वेक्कगेणेव ॥ [ ] इति,
त्रिभिरिति प्रव्राजनोत्थापनाधर्म्माचार्यत्वैरिति ।
उद्देशनम् अङ्गादेः पठनेऽधिकारित्वकरणम्, तत्र तेन वाऽऽचार्यो गुरुः उद्देशनाचार्य:, उभयशून्यः को भवतीत्याह-धर्माचार्य इति ।
अन्ते गुरोः समीपे वस्तुं शीलमस्यान्तेवासी शिष्यः, प्रव्राजनया दीक्षया अन्तेवासी प्रव्राजनान्तेवासी, दीक्षित इत्यर्थः, उत्थापनान्तेवासी महाव्रतारोपणतः शिष्य इति, चतुर्थभङ्गकस्थः क इत्याह- धर्मान्तेवासी धर्म्मप्रतिबोधनतः शिष्यः, धम्मार्थितयोपसम्पन्नो वेत्यर्थः, यो नोद्देशनान्तेवासी न वाचनान्तेवासीति चतुर्थः, स क इत्याहधर्मान्तेवासीत ।
निर्गता बाह्याभ्यन्तरग्रन्थान्निर्ग्रन्थाः साधवः, रत्नानि भावतो ज्ञानादीनि, तैर्व्यहरतीति रात्निकः, पर्यायज्येष्ठ इत्यर्थः, श्रमणो निर्ग्रन्थः । महान्ति गुरूणि स्थित्यादिभिस्तथाविधप्रमादाद्यभिव्यङ्ग्यानि कर्माणि यस्य स महाकर्म्मा, महती क्रिया कायिक्यादिका कर्म्मबन्धहेतुर्यस्य स महाक्रिय:, न आतापयति आतापनां शीतादिसहनरूपां करोतीत्यनातापी मन्दश्रद्धत्वादिति, अत एवाऽसमितः समितिभिः, स चैवंभूतो धर्म्मस्यानाराधको भवतीत्येकः, अन्यस्तु पर्यायज्येष्ठ एवाल्पकर्म्मा लघुकर्म्मा अल्पक्रिय इति द्वितीयः, अन्यस्तु अवमो लघुः पर्यायेण रात्निको अवमरात्निकः ।