________________
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः ।
एवं निर्ग्रन्थिका-श्रमणोपासक-श्रमणोपासिकासूत्राणि श्रमणसूत्रवत् ज्ञेयानि । चत्तारि गम त्ति त्रिष्वपि सूत्रेषु चत्वार आलापका भवन्तीति ।
[सू० ३२२] चत्तारि समणोवासगा पन्नत्ता, तंजहा - अम्मापितिसमाणे, भातिसमाणे, मित्तसमाणे, सवत्तिसमाणे 1
३४१
चत्तारि समणोवासगा पन्नत्ता, तंजहा - अद्दागसमाणे, पडागसमाणे, खाणुसमाणे, खरकंटयसमाणे ।
समणस्स णं भगवतो महावीरस्स समणोवासगाणं सोधम्मे कप्पे अरुणाभे विमाणे चत्तारि पलिओवमाइं ठिती पन्नत्ता ।
[टी०] अम्मा[पिइसमाणे] त्ति मातापितृसमानः, उपचारं विनापि साधुषु एकान्तेनैव वत्सलत्वात् । भ्रातृसमान: अल्पतरप्रेमत्वात् तत्त्वविचारादौ निष्ठुरवचनादप्रीतेः तथाविधप्रयोजने त्वत्यन्तवत्सलत्वाच्चेति । मित्रसमानः सोपचारवचनादिना वि प्रीतिक्षतेः, तत्क्षतौ चाऽऽपद्यप्युपेक्षकत्वादिति । समान: साधारण: पतिरस्या: सपत्नी, यथा सा सपत्न्या ईर्ष्यावशादपराधान् वीक्षते एवं यः साधुषु दूषणदर्शनतत्परोऽनुपकारी च स सपत्नीसमानोऽभिधीयत इति ।
अद्दाग त्ति आदर्शसमानो यो हि साधुभिः प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् भावान् यथावत् प्रतिपद्यते सन्निहितार्थानादर्शकवत् स आदर्शसमानः । यस्यानवस्थितो बोधो विचित्रदेशावायुना सर्वतोऽपहियमाणत्वात् पताकेव स पताकासमान इति । यस्तु कुतोऽपि कदाग्रहान्न गीतार्थदेशनया चाल्यते सोऽनमनस्वभावबोधत्वेनाऽप्रज्ञापनीयः स्थाणुसमान इति । यस्तु प्रज्ञाप्यमानो न केवलं स्वाग्रहान्न चलति अपि तु प्रज्ञापकं दुर्वचनकण्टकैर्विध्यति स खरकण्टकसमानः, खरा निरन्तरा निष्ठुरा वा कण्टाः कण्टका यस्मिंस्तत् खरकण्टं बब्बूलादिडालं खरणमिति लोके यदुच्यते तच्च विलग्नं चीवरं न केवलमविनाशितं न मुञ्चत्यपि तु तद्विमोचकं पुरुषादिं हस्तादिषु कण्टकैः विध्यतीति ।
श्रमणोपासकाधिकारादिदमाह - समणस्सेत्यादि कण्ठ्यम्, नवरं श्रमणोपासकानामानन्दादीनामुपासकदशाभिहितानामिति ।