________________
[अथ तृतीय उद्देशक:] [सू० ३११] [१] चत्तारि रातीओ पन्नत्ताओ, तंजहा-पव्वयराती, पुढविराती, वालुयराती, उदगराती । एवामेव चउव्विहे कोहे पन्नत्ते, तंजहापव्वतरातिसमाणे पुढविरातिसमाणे, वालुयरातिसमाणे, उदगरातिसमाणे । पव्वतरातिसमाणं कोहं अणुपविटे जीवे कालं करेति णेरतितेसु उववजति, पुढविरातिसमाणं कोहमणुपविढे तिरिक्खजोणितेसु उववजति, वालुयरातिसमाणं कोहं अणुपविढे समाणे मणुस्सेसु उववजति, उदगरातिसमाणं कोहमणुपविढे समाणे देवेसु उववजति १॥
[२] चत्तारि उदगा पन्नत्ता, तंजहा-कद्दमोदए, खंजणोदए, वालुओदए, सेलोदए। एवामेव चउव्विहे भावे पन्नत्ते, तंजहा-कद्दमोदगसमाणे, खंजणोदगसमाणे, वालुओदगसमामे, सेलोदगसमाणे । कद्दमोदगसमाणं भावमणुपविढे जीवे कालं करेति णेरतितेसु उववजति, एवं जाव सेलोदगसमाणं भावमणुपविट्टे जीवे कालं करेति देवेसु उववजति ।
टी०] व्याख्यातो द्वितीयोद्देशकः, अथ तृतीय आरभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धः, पूर्वत्र जीवक्षेत्रपर्याया उक्ताः, इह तु जीवपर्याया उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रद्वयं चत्तारीत्यादि, अस्य चायमभिसम्बन्ध:-पूर्वं चारित्रमुक्तं तत्प्रतिबन्धकश्च क्रोधादिभाव इति क्रोधस्वरूपप्ररूपणायेदमुच्यते, तदेवंसम्बन्धस्यास्य व्याख्या- राजी रेखा, शेष क्रोधव्याख्यानं मायादिवत्, मायादिप्रकरणाच्चान्यत्र क्रोधविचारो विचित्रत्वात् सूत्रगतेरिति, द्वितीयं सुगममेव । ___ अयं च क्रोधो भावविशेष एवेति भावप्ररूपणाय दृष्टान्तादिसूत्रद्वयमाह- चत्तारीत्यादि प्रसिद्धम्, किन्तु कईमो यत्र प्रविष्टः पादादिर्नाक्रष्टुं शक्यते कष्टेन वा शक्यते, खञ्जनं दीपादिखञ्जनतुल्य: पादादिलेपकारी कर्दमविशेष एव, वालुका प्रतीता सा तु लग्नापि जलशोषे पादादेरल्पेनैव प्रयत्नेनापैतीत्यल्पलेपकारिणी, शैलास्तु पाषाणा: श्लक्ष्णरूपास्ते पादादे: स्पर्शनेनैव किञ्चिद् दु:खमुत्पादयन्ति, न तु तथाविधं लेपमुपजनयन्ति, कर्दमादिप्रधानान्युदकानि कईमोदकादीन्युच्यन्ते । भावो जीवस्य रागादिपरिणाम: