________________
३१६
बातालीसं बातालीसं जोयणसहस्साइं ओगाहेत्ता एत्थ णं चउण्हं वेलंधरनागराईणं चत्तारि आवासपव्वता पन्नत्ता, तंजहा-गोथूभे, दोभासे, संखे, दगसीमे । तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओवमट्टितीता परिवति, तंजहा-गोथूभे, सिवए, संखे, मणोसिलए ।
जंबूदीवस्स णं दीवस्स बाहिरिल्लाओ वेइतंताओ चउसु विदिसासु लवणसमुदं बायालीसं बायालीसं जोयणसहस्साइं ओगाहेत्ता एत्थ णं चउण्हं अणुवेलंधरणागरातीणं चत्तारि आवासपव्वता पन्नत्ता, तंजहा-कक्कोडए विजुजिब्भे केलासे अरुणप्पभे । तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओवमट्टितीता परिवसंति, तंजहा-कक्कोडए कद्दमए केलासे अरुणप्पभे।
[टी०] जंबूदीव त्ति एत्थ णं ति मध्यमेषु दशयोजनसहस्रेषु महामहान्त इति वक्तव्ये समयभाषया महइमहालया इत्युक्तम्, महच्च तदरञ्जरं च, अरञ्जरम् उदकुम्भ इत्यर्थः, महारञ्जरम्, तस्य संस्थानेन संस्थिता ये ते तथा, तदाकारा इत्यर्थः, महान्तस्तदन्यक्षुल्लकव्यवच्छेदेन पातालमिवागाधत्वात् गम्भीरत्वात् पातालाः पातालव्यवस्थितत्वाद्वा पातालाः, महान्तश्च ते पातालाश्चेति महापातालाः, वडवामुखः केतुको यूपक ईश्वरश्चेति, क्रमेण पूर्वादिदिक्ष्विति, एते च मुखे मूले च दश सहस्राणि योजनानाम्, मध्ये उच्चस्त्वेन च लक्षमिति, एषामुपरितनभागे जलमेव मध्ये वायुजले मूले वायुरेवेति, एतन्निवासिनो देवाः वायुकुमाराः कालादय इति ।
वेलां लवणसमुद्रशिखामन्तर्विशन्ती बहिर्वा यान्तीमग्रशिखां च धारयन्तीति संज्ञात्वाद्वेलंधरास्ते च ते नागराजाश्च नागकुमारवराः वेलंधरनागराजास्तेषामावासपर्वता: पूर्वादिदिक्षु क्रमेण गोस्तूपादयः, विदिक्षु पूर्वोत्तरादिषु वेलंधराणां पश्चात्तयोऽनुनायकत्वेन नागराजा अनुवेलंधरनागराजाः । __ [सू० ३०३] लवणे णं समुद्दे चत्तारि चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा, चत्तारि सूरिता तवतिंसु वा तवतंति वा तवतिस्संति वा। चत्तारि कत्तियाओ जाव चतारि भरणीओ, चत्तारि अग्गी जाव चत्तारि जमा, चत्तारि अंगारया जाव चत्तारि भावकेऊ ।