________________
चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । जंबूदीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं सिहरिस्स वासहरपव्वयस्स चउसु विदिसासु लवणसमुदं तिन्नि तिन्नि जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा-एगूरूयदीवे, सेसं तहेव निरवसेसं भाणियव्वं जाव सुद्धदंता ।
[टी०] चुल्लहिमवंतस्स त्ति महाहिमवदपेक्षया लघोर्हिमवतः, तस्य हि प्राग्भागाऽपरभागयोः प्रत्येकं शाखाद्वयमस्तीत्युच्यते चउसु विदिसासु विदिक्षु पूर्वोत्तराद्यासु लवणसमुद्रं [त्रीणि त्रीणि योजनशतान्य वगाह्येत्येतस्य द्विकर्मत्वात्कर्मणि सप्तम्यर्थे द्वितीयेति त्रीणि त्रीणि योजनशतान्यवगाह्य-उल्लङ्घ्य ये शाखाविभागा वर्तन्ते एत्थ त्ति एतेषु शाखाविभागेषु अन्तरे मध्ये समुद्रस्य द्वीपाः, अथवा अन्तरं परस्परविभागः, तत्प्रधाना द्वीपा अन्तरद्वीपाः, तत्र पूर्वोत्तरायामेकोरुकाभिधानो योजनशतत्रयायामविष्कम्भो द्वीपः, एवमाभाषिक-वैषाणिक-लाङ्गलिकद्वीपा अपि क्रमेणाग्नेयी-नैर्ऋतीवायव्यास्विति, चतुर्विधा इति समुदायापेक्षया न त्वेकैकस्मिन्निति, अतः क्रमेणैते योज्याः, द्वीपनामतः पुरुषाणां नामान्येव, ते तु सर्वाङ्गोपाङ्गसुन्दरा दर्शनमनोरमाः, स्वरूपतो नैकोरुकादय एवेति, तथा एतेभ्य एव चत्वारि योजनशतान्यवगाह्य प्रतिविदिक् चतुर्योजनशतायाम-विष्कम्भा द्वितीयाश्चत्वार एव, एवं येषां यावदन्तरं तेषां तावदेवायामविष्कम्भप्रमाणं यावत् सप्तमानां नवशतान्यन्तरं तावदेव च तत्प्रमाणमिति, सर्वेऽप्यष्टाविंशतिरेते, एतन्मनुष्यास्तु युग्मप्रसवाः पल्योपमासङ्ख्येयभागायुषोऽष्टधनुःशतोच्चाः, तथैरावतक्षेत्रविभागकारिणः शिखरिणोऽप्येवमेव पूर्वोत्तरादिविदिक्षु क्रमेणैतन्नामिकैवान्तरद्वीपानामष्टाविंशतिरिति ।
[सू० ३०२] जंबुद्दीवस्स णं दीवस्स बाहिरिल्लाओ वेदियंतातो चउद्दिसिं लवणसमुदं पंचाणउई पंचाणउई जोयणसहस्साई ओगाहेत्ता एत्थ णं महतिमहालता महारंजरसंठाणसंठिता चत्तारि महापायाला पन्नत्ता, तंजहावलतामुहे, केउते, जूवए, ईसरे । एत्थ णं चत्तारि देवा महिड्डीया जाव पलिओवमट्टितीता परिवसंति, तंजहा-काले, महाकाले, वेलंबे, पभंजणे।
जंबूदीवस्स णं दीवस्स बाहिरिल्लातो वेतितंताओ चउद्दिसिं लवणसमुदं