________________
३१३
चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । बासट्ठि सहस्साइं पंचेव सयाई नंदणवणाओ। उड़े गंतूण वणं सोमणसं नंदणसरिच्छं ॥ सोमणसाओ तीसं छच्च सहस्से विलग्गिऊण गिरिं । विमलजलकुंडगहणं हवइ वणं पंडगं सिहरे ॥ चत्तारि जोयणसया चउणउया चक्कवालओ रुंदं । इगतीस जोयणसया बावट्ठी परिरओ तस्स ॥[बृहत्क्षेत्र० ३१७,३२७,३३८,३४६,३४७] त्ति। तीर्थकराणामभिषेकार्थाः शिला अभिषेकशिला: चूलिकायाः पूर्वदक्षिणापरोत्तरासु दिक्षु क्रमेणावगम्या इति, उवरिं ति अग्रे, विक्खंभेणं ति विस्तरेणेति । यथा जंबूदीवे दीवे भरहेरवएसु वासेसु इत्यादिभिः सूत्रैः कालादयश्चूलिकान्ता अभिहिताः एवं धातकीखण्डस्य पूर्वाः पश्चिमाः पुष्करार्द्धस्यापि पूर्वार्द्ध पश्चिमाः च वाच्याः, एकमेरुसम्बद्धवक्तव्यतायाः चतुर्भुप्यन्येषु समानत्वाद्, एतदेवाह- एवमित्यादि । अमुमेवातिदेशं सङ्ग्रहगाथया आह-जंबूदीवेत्यादि, जम्बूद्वीपस्येदं जम्बूद्वीपकं तं वा गच्छतीति जम्बूद्वीपगम्, जम्बूद्वीपे यदिति क्वचित् पाठः, अवश्यंभावित्वाद् वाच्यत्वाद्वाऽऽवश्यकं जम्बूद्वीपगतावश्यकं वा वस्तुजातम्, तुः पूरणे, किमादि किमन्तं चेत्याह कालात् सुषमसुषमालक्षणादारभ्य चूलिकां मन्दरचूलिकां यावत् यत्तदिति गम्यते, धातकीखण्डे पुष्करवरे च द्वीपे यौ पूर्वापरौ पार्टी प्रत्येकं पूवार्द्धमपरार्द्धं च तयोः, पूर्वापरेषु वर्षेषु वा क्षेत्रेष्वन्यूनाधिकं द्रष्टव्यमिति शेष इति । __ [सू० ३००] जंबूदीवस्स णं दीवस्स चत्तारि दारा पन्नत्ता, तंजहा-विजये, वेजयंते, जयंते, अपराजिते । ते णं दारा चत्तारि जोयणाइं विक्खंभेणं तावतितं चेव पवेसेणं पन्नत्ता, तत्थ णं चत्तारि देवा महिड्डिया जाव पलिओवमट्टितीता परिवसंति, तंजहा-विजते, वेजयंते, जयंते, अपराजिते।
[टी०] जंबूदीव त्ति विजयादीनि क्रमेण पूर्वादिदिक्षु, विष्कम्भो द्वारशाखयोरन्तरम्, प्रवेश: कुड्यस्थूलत्वमष्ट योजनान्युच्चत्वमिति, उक्तं च
चउजोयणवित्थिन्ना अट्टेव य जोयणाणि उव्विद्धा । उभओ वि कोसकोसं कुड्डा बाहल्लओ तेसिं ॥ [बृहत्क्षेत्र० १७] ति, क्रोशं शाखाबाहल्यमित्यर्थः ।