SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३०६ कर्मणो योग्यानां पुद्गलानां बन्धनम् आदानं बन्धः, तत्र कर्मण: प्रकृतय: अंशा भेदा ज्ञानावरणीयादयोऽष्टौ तासां प्रकृतेर्वा अविशेषितस्य कर्मणो बन्ध: प्रकृतिबन्धः, तथा स्थिति: तासामेवावस्थानं जघन्यादिभेदभिन्नम्, तस्या बन्धो निर्वर्तनं स्थितिबन्ध:, तथा अनुभावो विपाक: तीव्रादिभेदो रस इत्यर्थः, तस्य बन्धोऽनुभावबन्धः, तथा जीवप्रदेशेषु कर्मप्रदेशानामनन्तानन्तानां प्रतिप्रकृति प्रतिनियतपरिमाणानां बन्धः सम्बन्धनं प्रदेशबन्धः, परिमितप्रमाणगुडादिमोदकबन्धवदिति । __एवं च मोदकदृष्टान्तं वर्णयन्ति वृद्धा:-यथा किल मोदकः कणिक्का-गुड-घृतकटुभाण्डादिद्रव्यबद्धः सन् कोऽपि वातहरः, कोऽपि पित्तहर:, कोऽपि कफहर:, कोऽपि मारकः, कोऽपि बुद्धिकरः, कोऽपि व्यामोहकरः, एवं कर्मप्रकृति: काचिज्ज्ञानमावृणोति काचिद्दर्शनं काचित् सुखदुःखादिवेदनमुत्पादयतीति, तथा तस्यैव मोदकस्य यथा अविनाशभावेन कालनियमरूपा स्थितिर्भवति, एवं कर्मणोऽपि तद्भावेन नियतकालावस्थानं स्थितिबन्धः, तथा तस्यैव मोदकस्य यथा स्निग्ध-मधुरादिरेकगुणद्विगणादिभावेन रसो भवति, एवं कर्मणोऽपि देश-सर्वघाति-शुभा-ऽशुभ-तीव्रमन्दादिरनुभागबन्धः, तथा तस्यैव मोदकस्य यथा कणिक्कादिद्रव्याणां परिमाणवत्त्वम् एवं कर्मणोऽपि पुद्गलानां प्रतिनियतप्रमाणता प्रदेशबन्ध इति । उपक्रम्यते क्रियतेऽनेनेत्युपक्रम: कर्मणो बद्धत्वोदीरितत्वादिना परिणमनहेतुर्जीवस्य शक्तिविशेषो योऽन्यत्र करणमिति रूढः, उपक्रमणं वोपक्रमो बन्धनादीनामारम्भः, स्यादारम्भ उपक्रमः [अमरको० ६८९] इति वचनादिति, तत्र बन्धनं कर्मपुद्गलानां जीवप्रदेशानां च परस्परं सम्बन्धनम्, इदं च सूत्रमात्रबद्धलोहशलाकासम्बन्धोपममवगन्तव्यम्, तस्योपक्रम उक्तार्थो बन्धनोपक्रमः, एवमन्यत्रापि, नवरमप्राप्तकालफलानां कर्मणामुदये प्रवेशनमुदीरणा, उक्तं च जं करणेणोकड्डिय उदए दिजइ उदीरणा एसा । पगइ-ठिती-अणुभाग-प्पएस-मूलुत्तरविभागा ॥ [कर्मप्र० ४।१] तथा उदयोदीरणा-निधत्त-निकाचनाकरणानामयोग्यत्वेन कर्मणोऽवस्थापनमुपशमनेति, उक्तं च- उव्वदृण-ओवट्टण-संकमणाई च नऽन्नकरणाई [कर्मप्र० ५।६७] ति
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy