________________
चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः ।
३०७ उपशमनायां सन्तीति प्रक्रमः । तथा विविधैः प्रकारैः कर्मणां सत्तोदयक्षयक्षयोपशमोद्वर्त्तनापवर्तनादिभिरेतद्रूपतयेत्यर्थः, गिरिसरिदुपलन्यायेन द्रव्य-क्षेत्रादिभिर्वा करणविशेषेण वाऽवस्थान्तरापादनं विपरिणामना, इह च विपरिणामना बन्धनादिषु तदन्येष्वप्युदयादिष्वस्तीति सामान्यरूपत्वाद् भेदेनोक्तेति ।
बन्धनोपक्रमो बन्धनकरणं चतुर्द्धा, तत्र प्रकृतिबन्धनस्योपक्रमो जीवपरिणामो योगरूप:, तस्य प्रकृतिबन्धहेतुत्वादिति, स्थितिबन्धनस्यापि स एव, नवरं कषायरूप:, स्थिते: कषायहेतुकत्वादिति, अनुभागबन्धनोपक्रमोऽपि परिणाम एव, नवरं कषायरूप:, प्रदेशबन्धनोपक्रमस्तु स एव योगरूप इति, यत उक्तम्- जोगा पयडिपएसं ठिइअणुभागं कसायओ कुणइ [बन्धशतके ९९] इति, प्रकृत्यादिबन्धनानामारम्भा वा उपक्रमा इति, एवमन्यत्रापि। यन्मूलप्रकृतीनामुत्तरप्रकृतीनां वा दलिकं वीर्यविशेषेणाकृष्योदये दीयते सा प्रकृत्युदीरणेति, वीर्यादेव या प्राप्तोदयया स्थित्या सहाप्राप्तोदया स्थितिरनुभूयते सा स्थित्युदीरणेति। तथैव प्राप्तोदयेन रसेन सहाप्राप्तोदयो रसो यो वेद्यते साऽनुभागोदीरणेति। तथा प्राप्तोदयैर्नियतपरिमाणकर्मप्रदेशैः सहाप्राप्तोदयानां नियतपरिमाणानां कर्मप्रदेशानां यद् वेदनं सा प्रदेशोदीरणेति । इहापि कषाय-योगरूप: परिणाम आरम्भो वोपक्रमार्थः, प्रकृत्युपशमनोपक्रमादयश्चत्वारोऽपि सामान्योपशमनोपक्रमानुसारेणावगन्तव्याः, प्रकृतिविपरिणामनोपक्रमादयोऽपि सामान्यविपरिणामनोपक्रमलक्षणानुसारेणावबोद्धव्याः, उपक्रमस्तु प्रकृत्यादित्वेन पुद्गलानां परिणमनसमर्थं जीववीर्यमिति । __ अप्पाबहुए त्ति अल्पं च स्तोकं बहु च प्रभूतमल्पबहु, तद्भावोऽल्पबहुत्वम्, दीर्घत्वा-ऽसंयुक्तत्वे च प्राकृतत्वादिति, प्रकृतिविषयमल्पबहुत्वं बन्धाद्यपेक्षया, यथा सर्वस्तोकप्रकृतिबन्धक उपशान्तमोहादिः, एकविधबन्धकत्वाद्, बहुतरबन्धकः उपशमकादिसूक्ष्मसम्परायः, षड्विधबन्धकत्वात्, बहुतरबन्धक: सप्तविधबन्धकस्ततोऽष्टविधबन्धक इति, स्थितिविषयमल्पबहुत्वं यथा- सव्वत्थोवो संजयस्स जहन्नओ ठितीबंधो, एगिदियबायरपजत्तगस्स जहन्नओ ठिईबंधो असंखेजगुणो [ ] इत्यादि, अनुभागं प्रत्यल्पबहत्वं यथा- सव्वत्थोवाइं अणंतगुणवुड्डिट्ठाणाणि, असंखेजगुणवुड्डिट्ठाणाणि असंखेज्जगुणाणि, संखेजगुणवुड्डिट्ठाणाणि असंखेजगुणाणि जाव अणंतभागवुडिट्ठाणाणि