________________
३०४
मृतोऽपि लोभानुबन्धं न मुञ्चति तस्याभिधीयते लोभ: कृमिरागरक्तवस्त्रसमानोऽनन्तानुबन्धी चेति, एवं सर्वत्र भावना कार्येति । फलसूत्रं स्पष्टम्। [सू० २९४] चउव्विहे संसारे पन्नत्ते, तंजहा-णेरतियसंसारे जाव देवसंसारे। चउव्विहे आउते पन्नत्ते, तंजहा-णेरतिताउते जाव देवाउते । चउव्विहे भवे पन्नत्ते, तंजहा-निरतभवे जाव देवभवे । [टी०] अनन्तरं कषायाः प्रज्ञप्ताः, कषायैश्च संसारो भवतीति संसारस्वरूपमाहचउव्विहे इत्यादि व्यक्तम्, किन्तु संसरणं संसारः मनुष्यादिपर्यायान्नारकादिपर्यायगमनमिति, नैरयिकप्रायोग्येष्वायुर्नामगोत्रादिषु कर्मसूदयगतेषु जीवो नैरयिक इति व्यपदिश्यते, उक्तं च-नेरइए णं भंते ! नेरइएसु उववजइ अनेरइए नेरइएसु उववजइ ? गोयमा! नेरइए नेरइएसु उववजइ [प्रज्ञापना० १७।३।११९९] इति, ततो नैरयिकस्य संसरणम् उत्पत्तिदेशगमनमपरापरावस्थागमनं वा नैरयिकसंसारः, अथवा संसरन्ति जीवा यस्मिन्नसौ संसारो गतिचतुष्टयम्, तत्र नैरयिकस्यानुभूयमानगतिलक्षण: परम्परया चतुर्गतिको वा संसारो नैरयिकसंसारः, एवमन्येऽपि ।
उक्तरूपश्च संसार आयुषि सति भवतीति आयु:सूत्रम्, तत्र एति च याति चेत्यायुः कर्मविशेष इति, तत्र येन निरयभवे प्राणी ध्रियते तन्निरयायुः, एवमन्यान्यपि । उक्तरूपं चायुर्भवे स्थिति कारयतीति भवसूत्रं कण्ठ्यम्, केवलं भवनं भव: उत्पत्तिः, निरये भवो निरयभवः, मनुष्येषु मनुष्याणां वा भवो मनुष्यभव:, एवमन्यावपि । [सू० २९५] चउव्विहे आहारे पन्नत्ते, तंजहा-असणे, पाणे, खाइमे, साइमे १।
चउव्विहे आहारे पन्नत्ते, तंजहा- उवक्खरसंपन्ने, उवक्खडसंपन्ने, सभावसंपन्ने, परिजुसितसंपन्ने २।।
[टी०] भवेषु च सर्वेष्वाहारका जीवा: इत्याहारसूत्रे, तत्राहियत इत्याहारः, अश्यत इत्यशनम् ओदनादि, पीयत इति पानं सौवीरादि, खादः प्रयोजनमस्येति खादिमं फलवर्गादि, स्वाद: प्रयोजनमस्येति स्वादिमं ताम्बूलादि, उपस्क्रियतेऽनेनेत्युपस्करो हिङ्ग्वादिस्तेन सम्पन्नो युक्त उपस्करसम्पन्नः, तथा उपस्करणमुपस्कृतं पाक इत्यर्थस्तेन सम्पन्न: ओदन-मण्डकादिः उपस्कृतसम्पन्नः, पाठान्तरेण नोउवक्खरसंपन्नो