SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । ३०३ त्रोपदर्शयिष्यमाणत्वान्मायादिकषायत्रयप्रकरणमाह- चत्तारीत्यादि प्रकटम्, किन्तु केतनं सामान्येन वक्रं वस्तु पुष्पकरण्डस्य वा सम्बन्धि मुष्टिग्रहणस्थानं वंशविदलकम्, तच्च वक्रं भवति, केवलमिह सामान्येन वक्र वस्तु केतनं गृह्यते, तत्र वंशीमूलं च तत् केतनं च वंशीमूलकेतनमेवं सर्वत्र, नवरं मेण्ढविषाणं मेषशृङ्गम्, गोमूत्रिका प्रतीता, अवलेहणिय त्ति अवलिख्यमानस्य वंशशलाकादेर्या प्रतन्वी त्वक् साऽवलेखनिकेति, वंशीमूलकेतनकादिसमता तु मायायास्तद्वतामनार्जवभेदात्, तथाहियथा वंशीमूलमतिगुपिलवक्रमेवं कस्यचिन्मायाऽपीत्येवमल्पा-ऽल्पतराऽल्पतमानार्जवत्वेनान्याऽपि भावनीयेति, इयं चानन्तानुबन्ध्यप्रत्याख्यान-प्रत्याख्यानावरण-सज्वलनरूपा क्रमेण ज्ञेया, प्रत्येकमित्यन्ये, तेनैवानन्तानुबन्धिन्या उदयेऽपि देवत्वादि न विरुध्यते, एवं मानादयोऽपि । वाचनान्तरे तु पूर्वं क्रोध-मानसूत्राणि, तत्र क्रोधसूत्राणि चत्तारि राईओ पन्नत्ताओ, तं०- पव्वयराई, पुढविराई, रेणुराई, जलराई, एवामेव चउव्विहे कोहे इत्यादि मायासूत्राणीवाधीतानीति । फलसूत्रे अनुप्रविष्टः तदुदयवर्तीति । शिलाविकार: शैलः, स चासौ स्तम्भश्च स्थाणुः शैलस्तम्भः, एवमन्येऽपि, नवरम् अस्थि दारु च प्रतीतम्, तिनिशो वृक्षविशेषस्तस्य लता कम्बा तिनिशलता, सा चात्यन्तमृद्वीति, मानस्यापि शैलस्तम्भादिसमानता तद्वतो नमनाभावविशेषात् ज्ञेयेति, मानोऽप्यनन्तानुबन्ध्यादिरूपः क्रमेण दृश्यः, तत्फलसूत्रं व्यक्तम्, कृमिरागे वृद्धसम्प्रदायोऽयम्-मनुष्यादीनां रुधिरं गृहीत्वा केनापि योगेन युक्तं भाजने स्थाप्यते, ततस्तत्र कृमय उत्पद्यन्ते ते च वाताभिलाषिण: छिद्रनिर्गता आसन्ना भ्रमन्तो निर्हारलाला मुञ्चन्ति, ता: कृमिसूत्रं भण्यते, तच्च स्वपरिणामरागरञ्जितमेव भवति, अन्ये भणन्तिये रुधिरे कृमय उत्पद्यन्ते तान् तत्रैव मृदित्वा कचवरमुत्तार्य तद्रसे कञ्चिद् योग प्रक्षिप्य पट्टसूत्रं रञ्जयन्ति, स च रस: कृमिरागो भण्यते अनुत्तारीति, तत्र कृमीणां रागो रञ्जकरस: कृमिरागः, तेन रक्तं कृमिरागरक्तम्, एवं सर्वत्र, नवरं कईमो गोवाटादीनाम् खञ्जनं दीपादीनाम्, हरिद्रा प्रतीतैवेति, कृमिरागादिरक्तवस्त्रसमानता च लोभस्य अनन्तानुबन्ध्यादितद्भेदवतां जीवानां क्रमेण दृढ-हीन-हीनतर-हीनतमानुबन्धत्वात्, तथाहिकृमिरागरक्तं वस्त्रं दग्धमपि न रागानुबन्धं मुञ्चति, तद्भस्मनोऽपि रक्तत्वाद्, एवं यो
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy