________________
चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः ।
३०१
सौधर्मादीनावृणोत्यसौ कुक्कुटपञ्जरसंस्थानसंस्थितस्य तस्य प्रतिपादनाद्, उक्तं च- तमुक्काए णं भंते ! किंसंठिए पन्नत्ते ?, गोयमा ! अहे मल्लगमूलसंठिए उप्पिं कुक्कुटपंजरसंठिए पन्नत्ते [भगवती० ६।५।३] त्ति ।।
[सू० २९२] चत्तारि पुरिसजाया पन्नत्ता, तंजहा-संपागडपडिसेवी णाममेगे, पच्छन्नपडिसेवी णाममेगे, पडुप्पन्ननंदी नाममेगे, णिस्सरणणंदी णाममेगे १। __ चत्तारि सेणाओ पन्नत्ताओ, तंजहा-जतित्ता णाममेगे णो पराजिणित्ता, पराजिणित्ता णाममेगे णो जतित्ता, एगा जतित्ता वि पराजिणित्ता वि, एगा नो जतित्ता नो पराजिणित्ता २ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहाजतित्ता नाममेगे नो पराजिणित्ता ह्व [= ४], ३ ।। __ चत्तारि सेणाओ पन्नत्ताओ, तंजहा-जतित्ता णाममेगा जयति, जतित्ता णाममेगा पराजिणति, पराजिणित्ता णाममेगा जयति, पराजिणित्ता नाममेगा पराजिणति ४ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-जतित्ता नाममेगे जयति ह [= ४], ५ ।
[टी०] अनन्तरं तमस्कायो वचनपर्यायैरुक्तः, अधुना अर्थपर्यायैः पुरुषं निरूपयता पञ्चसूत्रीमाह, सुगमा पञ्चसूत्री, नवरं कश्चित् साधुर्गच्छवासी सम्प्रकटमेव अगीतार्थप्रत्यक्षमेव प्रतिसेवते मूलगुणानुत्तरगुणान् वा दर्पतः कल्पेन वेति सम्प्रकटप्रतिसेवीत्येकः, एवमन्य: प्रच्छन्नं प्रतिसेवत इति प्रच्छन्नप्रतिसेवी, अन्यस्तु प्रत्युत्पन्नेन लब्धेन वस्त्र-शिष्यादिना प्रत्युत्पन्नो वा जात: सन् शिष्याचार्यादिरूपेण नन्दति य: स प्रत्युत्पन्ननन्दी, अथवा नन्दनं नन्दिः आनन्दः, प्रत्युत्पन्नेन नन्दिर्यस्य स प्रत्युत्पन्ननन्दिः, तथा प्राघूर्णक-शिष्यादीनामात्मनो वा निःसरणेन गच्छादेर्निर्गमेन नन्दति यो नन्दिर्वा यस्य स तथा, पाठान्तरे तु प्रत्युत्पन्नं यथालब्धं सेवते भजते, नानुचितं विवेचयतीति प्रत्युत्पन्नसेवीति। जइत्त त्ति जेत्री जयति रिपुबलमेका, न पराजेत्री न पराजयते रिपुबलान्न भज्यते, द्वितीया तु पराजेत्री परेभ्यो भङ्गभाक्, अत एव नो जेत्रीति, तृतीया कारणवशादुभयस्वभावेति, चतुर्थी त्वविजिगीषुत्वादनुभयरूपेति ।