________________
३००
वा, तमुक्काते ति वा, अंधगारे ति वा, महंधगारे ति वा १॥ ___ तमुक्कायस्स णं चत्तारि णामधेजा पन्नत्ता, तंजहा-लोगंधगारे ति वा, लोगतमसे ति वा, देवंधगारे ति वा, देवतमसे ति वा २।
तमुक्कायस्स णं चत्तारि नामधेजा पन्नत्ता, तंजहा- वातफलिहे ति वा, वातफलिहखोभे ति वा, देवारण्णे ति वा, देववूहे ति वा ३।
तमुक्काते णं चत्तारि कप्पे आवरित्ता चिट्ठति, तंजहा-सोधम्ममीसाणं सणंकुमारं माहिंदं ४।
[टी०] तथा तमस्कायं तम इत्यादिभि: शब्दैः व्याहरन्नातिक्रामति भाषाचार यथार्थत्वादिति तानाह- तमुक्कायेत्यादि सूत्रत्रयं सुगमम्, नवरं तमस: अप्कायपरिणामरूपस्यान्धकारस्य काय: प्रचयस्तमस्कायः, यो ह्यसङ्ख्याततमस्यारुणवराभिधानद्वीपस्य बाह्यवेदिकान्तादरुणोदाख्यं समुद्रं द्विचत्वारिंशद् योजनसहस्राण्यवगाह्योपरितनाज्जलान्तादेकप्रदेशिकया श्रेण्या समुत्थित: सप्तदशैकविंशत्यधिकानि योजनशतानि ऊर्ध्वमुत्पत्य ततः तिर्यक् प्रविस्तृणन् सौधर्मादींश्चतुरो देवलोकानावृत्योर्ध्वमपि च ब्रह्मलोकस्य रिष्टं विमानप्रस्तटं सम्प्राप्त:, तस्य नामान्येव नामधेयानि, तम इति तमोरूपत्वादितिरुपप्रदर्शने, वा विकल्पे, तमोमात्ररूपताभिधायकान्याद्यानि चत्वारि नामधेयानि, तथाऽपराणि चत्वार्येवात्यन्तिकतमोरूपताभिधायकानीति, लोके अयमेवान्धकारो नान्योऽस्तीदृश इति लोकान्धकारः, देवानामप्यन्धकारोऽसौ, तच्छरीरप्रभाया अपि तत्राप्रभवनादिति देवान्धकारः, अत एव ते बलवतो भयेन तत्र नश्यन्तीति श्रुतिरिति, तथाऽन्यानि चत्वारि कार्याश्रयाणि- वातस्य परिहननात् परिघः अर्गला, परिघ इव परिघः, वातस्य परिघो वातपरिघ:, तथा वातं परिघवत् क्षोभयति हतमार्गं करोतीति वातपरिघक्षोभः, वात एव वा परिघस्तं क्षोभयति य: स तथा, पाठान्तरेण वातपरिक्षोभ इति, क्वचिद्देवपरिघो देवपरिक्षोभ इति चाद्यपदद्वयस्थाने पठ्यते, देवानामरण्यमिव बलवद्भयेन नशनस्थानत्वाद् य: स देवारण्यमिति, देवानां व्यूहः सागरादिसाङ्ग्रामिकव्यूह इव यो दुरधिगमत्वात् स देवव्यूह इति । तमस्कायस्वरूपप्रतिपादनायैव तमुक्काये णमित्यादि सूत्रं गतार्थम्, किन्तु