________________
२९६
नोतथ:, तथा स्वस्तीत्याह चरति वा सौवस्तिकः प्राकृतत्वात् ककारलोपे दीर्घत्वे च सोवत्थी माङ्गलिकाभिधायी मागधादिरन्य:, एतेषामेवाराध्यतया प्रधानः प्रभुरन्य इति । आयंतकरे त्ति आत्मनोऽन्तम् अवसानं भवस्य करोतीत्यात्मान्तकरः, नो परस्य भवान्तकरो धर्मदेशनाऽनासेवक: प्रत्येकबुद्धादि: १, तथा परस्य भवान्तं करोति मार्गप्रवर्त्तनेन परान्तकरो नात्मान्तकरोऽचरमशरीर आचार्यादिः २, तृतीयस्तु तीर्थकरोऽन्यो वा ३, चतुर्थो दुःषमाचार्यादि:४, अथवाऽऽत्मनोऽन्तं मरणं करोतीति
आत्मान्तकरः, एवं परान्तकरोऽपि, इह प्रथम आत्मवधकः, द्वितीय: परवधकः, तृतीय उभयहन्ता, चतुर्थस्त्ववधक इति, अथवाऽऽत्मतन्त्रः सन् कार्याणि करोतीत्यात्मतन्त्रकरः, एवं परतन्त्रकरोऽपि, इह तु प्रथमो जिनः, द्वितीयो भिक्षुः, तृतीय आचार्यादिः, चतुर्थः कार्यविशेषापेक्षया शठयतिः, [अथवा आत्मतन्त्रम् आत्मायत्तं धन-गच्छादि करोतीत्यात्मतन्त्रकरः, एवमितरोऽपि, भङ्गयोजना स्वयमूह्येति । तथा आत्मानं तमयति खेदयतीत्यात्मतम: आचार्यादिः, परं शिष्यादिकं तमयतीति परतमः, सर्वत्र प्राकृतत्वादनुस्वारः, अथवा आत्मनि तम: अज्ञानं क्रोधो वा यस्य स आत्मतमाः, एवमितरोऽपि, तथा आत्मानं दमयति शमवन्तं करोति शिक्षयति वेत्यात्मदम: आचार्योऽश्वदमकादिर्वा, एवमितरोऽपि, नवरं पर: शिष्योऽश्वादिर्वा ।
[सू० २८८] चउव्विधा गरहा पन्नत्ता, तंजहा-उवसंपजामित्तगा गरहा, वितिगिच्छामित्तेगा गरहा, जं किंचि मिच्छामीत्तेगा गरहा, एवं पि पन्नत्तेगा गरहा ।
[टी०] दमश्च गर्दागर्हात: स्यादिति गर्हासूत्रम्, तत्र गुरुसाक्षिका आत्मनो निन्दा गर्हा, तत्र उपसंपद्ये आश्रयामि गुरुं स्वदोषनिवेदनार्थम् अभ्युपगच्छामि वोचितं प्रायश्चित्तम् इतीति एवंप्रकार: परिणाम एका गर्हेति, गर्हात्वं चास्योक्तपरिणामस्य गर्हाया: कारणत्वेन कारणे कार्योपचाराद् गर्हासमानफलत्वाच्च द्रष्टव्यमिति ।
तथा वितिगिच्छामि त्ति वीति विशेषेण विविधप्रकारैर्वा चिकित्सामि प्रतिकरोमि निराकरोमि गर्हणीयान् दोषान् इतीति एवंविकल्पात्मिका एकाऽन्या गऱ्या, तत एवेति, तथा जं किंचि मिच्छामीति यत् किञ्चनानुचितं तन्मिथ्या विपरीतं दुष्ठु मे मम