________________
२९५
चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । अस्तमयसमये । उक्तविपर्ययसूत्रं कण्ठ्यम्, किन्तु पुव्वण्हे अवरण्हे त्ति दिनस्याऽऽद्यचरमप्रहरयो:, पओसे पच्चूसे त्ति रात्रेरिति ।
[सू० २८६] चउव्विहा लोगट्टिती पन्नत्ता, तंजहा-आगासपतिट्ठिए वाते, वातपतिट्ठिए उदधी, उदधिपतिट्ठिया पुढवी, पुढविपइट्ठिया तसा थावरा पाणा।
[टी०] स्वाध्यायप्रवृत्तस्य च लोकस्थितिपरिज्ञानं भवतीति तामेव प्रतिपादयन्नाहचउव्विहेत्यादि, लोकस्य क्षेत्रलक्षणस्य स्थिति: व्यवस्था लोकस्थितिः, आकाशप्रतिष्ठितो वातो घनवात-तनुवातलक्षण:, उदधिः घनोदधिः, पृथिवी रत्नप्रभादिका, सा द्वीन्द्रियादयस्ते पुनर्ये रत्नप्रभादिपृथिवीष्वप्रतिष्ठितास्तेऽपि विमानपर्वतादिपृथिवीप्रतिष्ठितत्वात् पृथिवीप्रतिष्ठिता एव, विमान-पृथिवीनां चाकाशादिप्रतिष्ठितत्वं यथासम्भवमवसेयम्, अविवक्षा वेह विमानादिगतदेवादित्रसानामिति, स्थावरास्त्विह बादरवनस्पत्यादयो ग्राह्या:, सूक्ष्माणां सकललोकप्रतिष्ठितत्वात्, शेष सुगममिति ।
[सू० २८७] चत्तारि पुरिसजाता पन्नत्ता, तंजहा- तहे नाममेगे, नोतहे नाममेगे, सोवत्थी नाममेगे, पधाणे नाममेगे ४, १ ।
चत्तारि पुरिसजाया पन्नत्ता, तंजहा-आयंतकरे नाममेगे णो परंतकरे १, परंतकरे णाममेगे जो आतंतकरे २, एगे आतंतकरे वि परंतकरे वि ३, एगे णो आतंतकरे णो परंतकरे ४, २ ।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-आतंतमे नाममेगे नो परंतमे, परंतमे नामं एगे ह [= ४], ३ । ___ चत्तारि पुरिसजाया पन्नत्ता, तंजहा-आयंदमे नाममेगे णो परंदमे ह्व [= ४], ४ ।
[टी०] अनन्तरं त्रसा: प्राणा उक्ता:, अधुना त्रसप्राणविशेषस्य चत्तारीत्यादिभिश्चतुर्भिश्चतुर्भङ्गीसूत्रैः स्वरूपं दर्शयति, कण्ठ्यानि चैतानि, केवलं तह त्ति सेवकः सन् यथैवादिश्यते तथैव यः प्रवर्त्तते स तथः, अन्यस्तु नो तथैवान्यथापीत्यर्थ इति