SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २९४ उद्गमादिदोषरहिततयेत्येषणीय: कल्प्यस्तस्य, उञ्छ्यते अल्पाल्पतया गृह्यत इत्युञ्छो भक्त-पानादिस्तस्य, समुदाने भिक्षणे याच्चायां भव: सामुदानिकः तस्य, नो सम्यग् गवेषयिता अन्वेष्टा भवति, इत्येवंप्रकारैः एतैरनन्तरोदितैरित्यादि निगमनम्, एतद्विपर्ययसूत्रं कण्ठ्य म् । [सू० २८५] नो कप्पति निग्गंथाण वा निगंथीण वा चउहि महापाडिवतेहिं सज्झायं करेत्तए, तंजहा-आसाढपाडिवते, इंदमहपाडिवते, कत्तियपाडिवते, सुगिम्हपाडिवते १॥ ___णो कप्पति निगंथाण वा निग्गंथीण वा चउहिं संझाहिं सज्झायं करेत्तए, तंजहा-पढमाते, पच्छिमाते, मज्झण्हे, अड्डरत्ते । कप्पति निग्गंथाण वा निग्गंथीण वा चाउक्कालं सज्झायं करेत्तए, तंजहापुव्वण्हे, अवरण्हे, पओसे, पच्चूसे २। [टी०] निर्ग्रन्थप्रस्तावात्तदकृत्यनिषेधाय सूत्रे नो कप्पइ इत्यादिके कण्ठ्ये, केवलं महोत्सवानन्तरवृत्तित्वेनोत्सवानुवृत्त्या शेषप्रतिपद्विलक्षणतया महाप्रतिपदस्तासु, इह च देशविशेषरूढ्या पाडिवएहिं ति निर्देश:, स्वाध्यायो नन्द्यादिसूत्रविषयो वाचनादिः, अनुप्रेक्षा तु न निषिध्यते, आषाढस्य पौर्णमास्या अनन्तरा प्रतिपदाषाढप्रतिपदेवमन्यत्रापि, नवरमिन्द्रमहः अश्वयुक्पौर्णमासी, सुग्रीष्म: चैत्रपौर्णमासीति, इह च यत्र विषये यतो दिवसान्महामहा: प्रवर्तन्ते तत्र तद्दिवसात् स्वाध्यायो न विधीयते महसमाप्तिदिनं यावत् तच्च पौर्णमास्येव, प्रतिपदस्तु क्षणानुवृत्तिसम्भवेन वय॑न्त इति, उक्तं च आसाढी इंदमहो कत्तिय सुगिम्हए य बोद्धव्वे । एए महामहा खलु सव्वेसिं जाव पाडिवया ॥ [आव० नि० १३५२] इति । अकालस्वाध्याये चामी दोषा:सुयणाणम्मि अभत्ती लोगविरुद्धं पमत्तछलणा य । विजासाहणवेगुन्नधम्मया एव मा कुणसु ॥ [आव० नि० १४२२] इति, विद्यासाधनवैगुण्यसाधर्मेणैवेत्यर्थः । प्रथमा सन्ध्या अनुदिते सूर्ये, पश्चिमा
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy