________________
चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः ।
२९३ अतिसेसे नाणदंसणे समुप्पजिउकामे वि न समुप्पज्जेजा, तंजहा-अभिक्खणं अभिक्खणमित्थिकहं भत्तकहं देसकहं रायकहं कहेत्ता भवति १, विवेगेणं विउसग्गेणं णो सम्ममप्पाणं भाविता भवति २, पुव्वरत्तावरत्तकालसमयंसि णो धम्मजागरितं जागरतित्ता भवति ३, फासुयस्स एसणिजस्स उंछस्स सामुदाणियस्स णो सम्मं गवेसित्ता भवति ४, इच्चेतेहिं चउहि ठाणेहिं निग्गंथाण वा निग्गंथीण वा जाव नो समुप्पज्जेज्जा ।
चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अतिसेसे पाणदंसणे समुप्पजिउकामे समुप्पजेजा, तंजहा-इत्थीकहं भत्तकहं देसकहं रायकहं णो कहेत्ता भवति, विवेगेणं विउसग्गेणं सम्ममप्पाणं भावेत्ता भवति, पुव्वरत्तावरत्तकालसमयंसि धम्मजागरितं जागरतित्ता भवति, फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स सम्मं गवेसित्ता भवति, इच्चेतेहिं चउहिं ठाणेहिं णिग्गंथाण वा णिग्गंथीण वा जाव समुप्पजेजा ।
[टी०] ज्ञानदर्शनयोरुत्पाद: उक्तोऽधुना तद्व्याघात उच्यते, तत्र- चउहीत्यादि सूत्रं स्फुटम्, परं निर्ग्रन्थीग्रहणात् स्त्रिया अपि केवलमुत्पद्यत इत्याहेति । अस्मिन्निति अस्मिन् प्रत्यक्ष इवानन्तरप्रत्यासन्ने समये अइसेसे त्ति शेषाणि मत्यादि- चक्षुर्दर्शनादीनि अतिक्रान्तं सर्वावबोधादिगुणैर्यत्तदतिशेषमतिशयवत् केवलमित्यर्थः, समुत्पत्तुकाममपीति इहेवार्थो द्रष्टव्य:, ज्ञानादेरभिलाषाभावात् । कथयितेति शीलार्थिकस्तृन्, तेन द्वितीया न विरुद्धेति। विवेकेनेति अशुद्धादित्यागेन विउसग्गेणं ति कायव्युत्सर्गेण। पूर्वरात्रश्च रात्रे: पूर्वो भागो अपररात्रश्च रात्रेरपरो भाग: तावेव काल: स एव समय: अवसरो जागरिकाया: पूर्वरात्रापररात्रकालसमयस्तस्मिन्, कुटुम्बजागरिकाव्यवच्छेदेन धर्मप्रधाना जागरिका निद्राक्षयेण बोधो धर्मजागरिका, भावप्रत्युपेक्षेत्यर्थः, यथा
किं कय किं वा सेसं किं करणिजं तवं च न करेमि । पुव्वावरत्तकाले जागरओ भावपडिलेहा ॥ [ओघनि० २६२] इत्यादिरूपा, विभक्तिपरिणामात् तया जागरिता जागरको भवति । तथा प्रगता असव: उच्छ्वासादय: प्राणा यस्मात् स प्रासुको निर्जीवस्तस्य, एष्यते गवेष्यते