________________
२९२
नरकप्रायोग्यं बध्नतां काक-गृध्रादीनामिव चतुर्थीति ।
इहलोए सुचिन्नेत्यादि चतुर्भङ्गी तीर्थकरदानदातृ १ सुसाधु २ तीर्थकर ३ देवभवस्थतीर्थकरादीना ४ मिव भावनीयेति ।
[सू० २८३] चत्तारि पुरिसजाया पन्नत्ता, तंजहा-किसे णाममेगे किसे, किसे णाममेगे दढे, दढे णाममेगे किसे, दढे णाममेगे दढे । चत्तारि पुरिसजाया पन्नत्ता, तंजहा-किसे णाममेगे किससरीरे, किसे णाममेगे दढसरीरे, दढे णाममेगे किससरीरे, दढे णाममेगे दढसरीरे ४ ।
चत्तारि पुरिसजाया पन्नत्ता, तंजहा-किससरीरस्स नाममेगस्स णाणदंसणे समुप्पज्जति णो दढसरीरस्स, दढसरीरस्स णाम एगस्स णाणदंसणे समुप्पजति णो किससरीरस्स, एगस्स किससरीरस्स वि णाणदंसणे समुप्पजति दढसरीरस्स वि, एगस्स नो किससरीरस्स णाणदंसणे समुप्पजति णो दढसरीरस्स ।
[टी०] उक्तो वाग्विशेषोऽधुना पुरुषजातप्रधानतया कायविशेषमाह- चत्तारि पुरिसेत्यादि कण्ठ्यम्, नवरं कृश: तनुशरीर: पूर्वं पश्चादपि कृश एव, अथवा कृशो भावेन हीनसत्त्वादित्वात् पुन: कृश: शरीरादिभिः, एवं दृढोऽपि विपर्ययादिति, पूर्वसूत्रार्थविशेषाश्रितमेव द्वितीयं सूत्रम्, तत्र कृशो भावत:, शेषं सुगमम् । ___ कृशस्यैव चतुर्भङ्ग्या ज्ञानोत्पादमाह- चत्तारीत्यादि व्यक्तम्, किन्तु कृशशरीरस्य विचित्रतपसा भावितस्य शुभपरिणामसम्भवेन तदावरणक्षयोपशमादिभावात् ज्ञानञ्च दर्शनञ्च ज्ञानदर्शनं ज्ञानेन वा सह दर्शनं ज्ञानदर्शनं छाद्यस्थिकं कैवलिकं वा तत् समुत्पद्यते, न दृढशरीरस्य, तस्य हि उपचितत्वेन बहुमोहतया तथाविधशुभपरिणामाभावेन क्षयोपशमाद्यभावादित्येकः, तथाऽमन्दसंहननस्याल्पमोहस्य दृढशरीरस्यैव ज्ञानदर्शनमुत्पद्यते, स्वस्थशरीरतया मन:स्वास्थ्येन शुभपरिणामभावत: क्षयोपशमादिभावात् न कृशशरीरस्याऽस्वास्थ्यादिति द्वितीयः, तथा कृशस्य दृढस्य वा तदुत्पद्यते विशिष्टसंहननस्याल्पमोहस्योभयथापि शुभपरिणामभावात् कृशत्व-दृढत्वे नापेक्षत इति तृतीयः, चतुर्थः सुज्ञानः ।
[सू० २८४] चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अस्सिं समयंसि