________________
२९१
चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । संवेजनी वेति, निर्विद्यते संसारादेनिविण्ण: क्रियते अनयेति निर्वेदनीति । आचारो लोचा-ऽस्नानादिः, तत्प्रकाशनेन आक्षेपणी आचाराक्षेपणीति, एवमन्यत्रापि, नवरं व्यवहारः कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षण:, प्रज्ञप्तिः संशयापन्नस्य श्रोतुर्मधुरवचनैः प्रज्ञापनम्, दृष्टिवादः श्रोत्रपेक्षया नयानुसारेण सूक्ष्मजीवादिभावकथनम्, अन्ये त्वभिदधति आचारादयो ग्रन्था एव परिगृह्यन्ते, आचाराद्यभिधानादिति, अस्याश्चायं रस:
विजा चरणं च तवो पुरिसक्कारो य समिइगुत्तीओ। उवइस्सइ खलु जं सो कहाए अक्खेवणीय रसो ॥ [दशवै० नि० १९५] इति ।
स्वसमयं स्वसिद्धान्तं कथयति, तद्गुणानुद्दीपयति पूर्वम्, ततस्तं कथयित्वा परसमयं कथयति, तद्दोषान् दर्शयतीत्येका । एवं परसमयकथनपूर्वकं स्वसमयं स्थापयिता स्वसमयगुणानां स्थापको भवतीति द्वितीया । सम्मावायमित्यादि, अस्यायमर्थ:- परसमयेष्वपि घुणाक्षरन्यायेन यो यावान् जिनागमतत्त्ववादसदृशतया सम्यग् अविपरीततत्त्वानां वाद: सम्यग्वाद: तं कथयति, तं कथयित्वा तेष्वेव यो जिनप्रणीततत्त्व- विरुद्धत्वान्मिथ्यावादस्तं दोषदर्शनत: कथयतीति तृतीया। परसमयेष्वेव मिथ्यावादं कथयित्वा सम्यग्वादं स्थापयिता भवतीति चतुर्थी । ___ इहलोको मनुष्यजन्म, तत्स्वरूपकथनेन संवेगनी इहलोकसंवेगनी, सर्वमिदं मानुषत्वमसारमध्रुवं कदलीस्तम्भसमानमित्यादिरूपा । एवं परलोकसंवेदनी देवादिभवस्वभावकथनरूपा देवा अपीा -विषाद-भय-वियोगादिदुःखैरभिभूताः, किं पुनस्तिर्यगादय इति । आत्मशरीरसंवेगनी यदेतदस्मदीयं शरीरमेतदशुचिकारणजातमशुचिद्वारविनिर्गतमिति न प्रतिबन्धस्थानमित्यादिकथनरूपा, एवं परशरीरसंवेगनी, अथवा परशरीरं मृतकशरीरमिति । ___ इहलोके दुश्चीर्णानि चौर्यादीनि कर्माणि क्रिया इहलोके दुःखमेव कर्मद्रुमजन्यत्वात् फलं दुःखफलं तस्य विपाकः अनुभवो दुःखफलविपाकस्तेन संयुक्तानि दुःखफलविपाकसंयुक्तानि भवन्ति चौरादीनामिवेत्येका, एवं नारकाणामिवेति द्वितीया, आ गर्भात् व्याधि-दारिद्र्याभिभूतानामिवेति तृतीया, प्राक्कृताशुभकर्मोत्पन्नानां