________________
२९०
तथा देशे मगधादौ विधिः विरचना भोजन-मणि-भूमिकादीनां भुज्यते वा यद्यत्र प्रथमतयेति देशविधिः, तत्कथा देशविधिकथा, एवमन्यत्रापि । नवरं विकल्प: सस्यनिष्पत्ति: वप्र-कूपादि-देवकुल-भवनादिविशेषश्चेति, छन्दो गम्यागम्यविभागो यथा लाटदेशे मातुलभगिनी गम्या अन्यत्रागम्येति, नेपथ्यं स्त्री-पुरुषाणां वेष: स्वाभाविको विभूषाप्रत्ययश्चेति । इह दोषा:
रागद्दोसुप्पत्ती सपक्ख-परपक्खओ य अहिगरणं । बहुगुण इमो त्ति देसो सोउं गमणं च अन्नेसिं ॥ [निशीथभा० १२७] ति । तथा रायकहे त्ति, अतियानं नगरादौ प्रवेशः, तत्कथा अतियानकथा, यथासियसिंधुरखंधगओ सियचमरो सेयछत्तछन्नणहो । जणणयणकिरणसेओ एसो पविसइ पुरे राया ॥ [ ] इति । एवं सर्वत्र, नवरं निर्याणं निर्गमः, तत्कथा यथावज्जतायोज्जममंदबंदिसदं मिलंतसामंतं । संखुद्धसेन्नमुधुयचिंधं नयरा निवो नीइ ॥ [ ] बलं हस्त्यादि, वाहनं वेगसरादि, तत्कथा यथाहेसंतहयं गजंतमयगलं घणघणंतरहलक्खं । कस्सऽन्नस्स वि सेन्नं णिन्नासियसत्तुसिन्नं भो ! ॥ [ ] कोशो भाण्डागारम्, कोष्ठागारं धान्यागारमिति, तत्कथा यथापुरिसपरंपरपत्तेण भरियविस्संभरेण कोसेणं । णिजियवेसमणेणं तेण समो को निवो अन्नो? ॥ [ ] त्ति । इह चैते दोषा:चारिय चोरा १ भिमरे २ हिय १ मारिय २ संक काउकामा वा । भुत्ताभुत्तोहाणे करेज वा आससपओगं ॥ [निशीथभा० १३०] भुक्तभोगोऽभुक्तभोगो वा अवधावनं कुर्यादित्यर्थः ।
आक्षिप्यते मोहात् तत्त्वं प्रत्याकृष्यते श्रोताऽनयेत्याक्षेपणी, तथा विक्षिप्यते सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोताऽनयेति विक्षेपणी, संवेगयति संवेगं करोतीति संवेगनी संवेद्यते वा संबोध्यते संवेज्यते वा संवेगं ग्राह्यते श्रोताऽनयेति संवेदनी