________________
अनेनास्मिन्नस्माद्वेति ज्ञानम्, ज्ञान-दर्शनावरणयोः क्षयः क्षयोपशमो वा । ज्ञातिर्वा ज्ञानम्, आवरणद्वयक्षयाद्याविर्भूत आत्मपर्यवविशेषः सामान्यविशेषात्मके वस्तुनि विशेषांशग्रहणप्रवणः सामान्यांशग्राहकश्च ज्ञानपञ्चका-ऽज्ञानत्रयदर्शनचतुष्टयरूपः, तच्चानेकमप्यवबोधसामान्यादेकमुपयोगापेक्षया वा, तथाहि- लब्धितो बहूनां बोधविशेषाणामेकदा सम्भवेऽप्युपयोगत एक एव सम्भवति, एकोपयोगत्वाज्जीवानामिति । ननु दर्शनस्य ज्ञानव्यपदेश्यत्वमयुक्तम्, विषयभेदाद्, उक्तं च– जं सामन्नग्गहणं दंसणमेयं विसेसियं नाणं [ ] ति, अत्रोच्यते, ईहा-ऽवग्रहौ हि दर्शनम्, सामान्यग्राहकत्वाद्, अपाय-धारणे च ज्ञानम्, विशेषग्राहकत्वाद् ।
दंसणे त्ति दृश्यन्ते श्रद्धीयन्ते पदार्था अनेनास्मादस्मिन् वेति दर्शनं दर्शनमोहनीयस्य क्षयः क्षयोपशम उपशमो वा, दृष्टिा दर्शनं दर्शनमोहनीयक्षयाद्याविभूतस्तत्त्वश्रद्धानरूप आत्मपरिणामः, तच्चोपाधिभेदादनेकविधमपि श्रद्धानसामान्यादेकम्, एकजीवस्य वैकदा एकस्यैव भावादिति । नन्ववबोधसामान्याज्ज्ञान-सम्यक्त्वयोः कः प्रतिविशेषः ?, उच्यते, रुचिः सम्यक्त्वम्, रुचिकारणं तु ज्ञानम्, यथोक्तम्
नाणमवाय-धिईओ दसणमिटुं जहोग्गहेहाओ। तह तत्तरुई सम्मं रोइज्जइ जेण तं नाणं ॥ [ ] ति ।
चरित्ते त्ति चर्यते मुमुक्षुभिरासेव्यते तदिति चर्यते वा गम्यते अनेन निर्वृताविति चरित्रम्, चारित्रमोहनीयक्षयाद्याविर्भूत आत्मनो विरतिरूपः परिणाम इति, सामायिकादितद्भेदानां विरतिसामान्यान्तर्भावादेकस्य चैकदा भावाद्वेति । एतेषां च ज्ञानादीनामयमेव क्रमः, यतो नाज्ञातं श्रद्धीयते नाश्रद्धितं सम्यगनुष्ठीयत इति । [सू० ३६] एगे समए । एगे पएसे । एगे परमाणू ।
[टी०] ज्ञानादीनि ह्युत्पत्ति-विगति-स्थितिमन्ति, स्थितिश्च समयादिकेति समयं प्ररूपयन्नाह- एगे समए । समयः परमनिरुद्धः काल उत्पलपत्रशतव्यतिभेददृष्टान्ताज्जरत्पट्टशाटिकापाटनदृष्टान्ताद्वा समयप्रसिद्धादवबोद्धव्यः, स चैक एव वर्तमानस्वरूपः, अतीता-ऽनागतयोविनष्टा-ऽनुत्पन्नत्वेनाभावात् । निरंशवस्त्वधिकारादेवेदं सूत्रद्वयमाहएगे पएसे, एगे परमाण् । प्रकृष्टो निरंशो धर्मा-ऽधर्मा-ऽऽकाश-जीवानां देश: अवयवविशेषः प्रदेशः, स चैकः स्वरूपतः, सद्वितीयत्वादौ देशव्यपदेश्यत्वेन