________________
प्रथममध्ययनम् एकस्थानकम् । तर्हि मिश्रयोगता भविष्यति, केवलिसमुद्घाते सप्तम-षष्ठ-द्वितीयसमयेष्वौदारिकमिश्रवत्, तथा चाहारकप्रयोक्ता न लभ्येत, एवं च सप्तविधकाययोगप्रतिपादनमनर्थकं स्यादित्येक एव कायव्यायाम इति । ___इह च देवादिग्रहणं विशिष्टवैक्रियलब्धिसम्पन्नतयैषामनेकशरीररचने सत्येकदा मनोयोगादीनामनेकत्वं शरीरवद् भविष्यतीति प्रतिपत्तिनिरासार्थम्, न तु तिर्यग्नारकाणां व्यवच्छेदार्थम् इति विस्तरो वृत्तितो ज्ञेयः। सर्वत्र एवं च काययोगैकत्वे सत्यौदारिकादिकाययोगाहृतमनोद्रव्य-वारद्रव्यसाचिव्यजातजीवव्यापाररूपत्वात् मनोयोगवाग्योगयोरेककाययोगपूर्वकतयाऽपि प्रागुक्तमेकत्वमवसेयमिति । अथवेदमेव वचनमत्र प्रमाणम्, आज्ञाग्राह्यत्वात् अस्य, यतः
आणागेज्झो अत्थो आणाए चेव सो कहेयव्वो । दिटुंता दिलृतिअ कहणविहि विराहणा इहरा ॥ [आव० नि० १६३३] इति । दृष्टान्ताद्दान्तिकोऽर्थ इत्यर्थः । एतेषां च मनःप्रभृतीनां यथाप्राधान्यकृतः क्रमः, प्रधानत्वं च बह्वल्पाऽल्पतरकर्मक्षयोपशमप्रभवलाभकृतमिति ।
कायव्यायामस्यैव भेदानामेकतामाह- एगे उट्ठाणेत्यादि, उत्थानं च चेष्टाविशेषः कर्म च भ्रमणादिक्रिया बलं च शरीरसामर्थ्य वीर्यं च जीवप्रभवं पुरुषकारश्च अभिमानविशेषः पराक्रमश्च पुरुषकार एव निष्पादितस्वविषय इति विग्रहे द्वन्द्वैकवद्भावः, एते च वीर्यान्तरायक्षय-क्षयोपशमसमुत्था जीवपरिणामविशेषाः, एतेषु प्रत्येकमेकशब्दो योजनीयः, वीर्यान्तरायक्षय-क्षयोपशमवैचित्र्यतः प्रत्येकं जघन्यादिभेदैरनेकत्वेऽप्येषामेकजीवस्यैकदा क्षय-क्षयोपशममात्राया एकविधत्वादेक एव जघन्यादिरेतद्विशेषो भवति कारणमात्राधीनत्वात् कार्यमात्राया इति सूत्रभावार्थः, शेषं प्राग्वदिति । [सू० ३५] एगे नाणे १। एगे दंसणे २॥ एगे चरित्ते ३। [टी०] पराक्रमादेश्च ज्ञानादिर्मोक्षमार्गोऽवाप्यते, यत आहअब्भुट्ठाणे विणये परक्कमे साहुसेवणाए य । सम्मइंसणलंभो विरयाविरईय विरईय ॥ [आव० नि० ८४८] इति । अतो ज्ञानादीनां निरूपणार्थमाह- एगे नाणे इत्यादि । ज्ञायते परिच्छिद्यतेऽर्थो