________________
एतद्विपर्ययमाह- एगा धम्मेत्यादि प्राग्वत्, नवरं पर्यवाः ज्ञानादिविशेषा जाता यस्य स पर्यवजातो भवतीति शेषः, विशुध्यतीत्यर्थः ।
[सू० ३१] एगे मणे देवा-ऽसुर-मणुयाणं तंसि तंसि समयंसि १॥ [सू० ३२] एगा वती देवा-ऽसुर-मणुयाणं तंसि तंसि समयंसि २॥ [सू० ३३] एगे कायवायामे देवा-ऽसुर-मणुयाणं तंसि तंसि समयंसि ३। [सू० ३४] एगे उट्ठाण-कम्म-बल-वीरिय-पुरिसकार-परक्कमे देवा-ऽसुरमणुयाणं तंसि तंसि समयंसि ४।
[टी०] धर्माधर्मप्रतिमे च योगत्रयाद्भवत इति तत्स्वरूपमाह- एगे मणे इत्यादि सूत्रत्रयम्, तत्र मन इति मनोयोगः, तच्च यस्मिन् यस्मिन् समये विचार्यते तस्मिन् तस्मिन् समये कालविशेष एकमेव, वीप्सानिर्देशेन न क्वचनापि समये तद् द्वयादिसङ्ख्यं भवतीत्याह । एकत्वं च तस्यैकोपयोगत्वात् जीवानाम् । स्यादेतत्- नैकोपयोगो जीवः, युगपच्छीतोष्णस्पर्शविषयसंवेदनद्वयदर्शनात्, तथाविधभिन्नविषयोपयोगपुरुषद्वयवत्, अत्रोच्यते, यदिदं शीतोष्णोपयोगद्वयं तत् स्वरूपेण भिन्नकालमपि समय-मनसोरतिसूक्ष्मतया युगपदिव प्रतीयते, न पुनस्तद्युगपदेवेति ।
स मनोयोगः केषामित्याह- देवासुरमणुयाणं ति, तत्र दीव्यन्ति इति देवाः वैमानिकज्योतिष्कास्ते च, न सुरा असुराः भवनपति-व्यन्तरास्ते च, मनोर्जाता मनुजा: मनुष्यास्ते च देवा-ऽसुर-मनुजाः, तेषाम् । तथा वागिति वाग्योगः, स चैषामेकदा एक एव, तथाविधमनोयोगपूर्वकत्वात् तथाविधवाग्योगस्य, सत्यादीनामन्यतरभावाद्वा, वक्ष्यति च– छहिं ठाणेहिं णत्थि जीवाणं इड्डी इ वा जाव परक्कमे इ वा, तंजहा-जीवं वा अजीवं करणयाए १, अजीवं वा जीवं करणयाए २, एगसमएणं दो भासाओ भासित्तए [सू० ४७९] इति ।
तथा कायव्यायामः काययोगः, स चैषामेकदा एक एव, सप्तानां काययोगानामेकदा एकतरस्यैव भावात् । ननु यदाऽऽहारकप्रयोक्ता भवति तदौदारिकस्यावस्थितस्य श्रूयमाणत्वात् कथमेकदा न काययोगद्वयमिति ?, अत्रोच्यते, सतोऽप्यौदारिकस्य व्यायामाभावादाहारकस्यैव च तत्र व्याप्रियमाणत्वाद्, अथौदारिकमपि तदा व्याप्रियते