________________
प्रथममध्ययनम् एकस्थानकम् ।
[टी०] वेयण त्ति प्राग् वेदना सामान्यकर्मानुभवलक्षणोक्ता, इह तु पीडालक्षणैव, सा च सामान्यत एकैवेति ।
अस्या एव कारणविशेषनिरूपणायाह- छयणे त्ति छेदनं शरीरस्यान्यस्य वा खड्गादिनेति । भेयणे त्ति, भेदनं कुन्तादिना, अथवा छेदनं कर्मणः स्थितिघातः, भेदनं तु रसघात इति, एकता च विशेषाविवक्षणादिति ।।
वेदनादिभ्यश्च मरणमतस्तद्विशेषमाह- एगे मरणे इत्यादि, मृतिर्मरणम्, अन्ते भवमन्तिमं चरमम्, तच्च तच्छरीरं चेत्यन्तिमशरीरम्, तत्र भवा अन्तिमशारीरिका उत्तरपदवृद्धः, तद्वा तेषामस्तीति अन्तिमशरीरिकाः, दीर्घत्वं च प्राकृतशैल्या, तेषां चरमदेहानाम्, मरणैकता च सिद्धत्वे पुनर्मरणाभावादिति। [सू० २८] एगे संसुद्धे अहाभूते पत्ते । एगदुक्खे जीवाणं एगभूते। [टी०] अन्तिमशरीरश्च स्नातको भूत्वा म्रियते, अतस्तमाह- एगे संसुद्धे इत्यादि, एकः संशुद्धः अशबलचरणः अकषायत्वात्, यथाभूतः तात्त्विकः । पात्रमिव पात्रमतिशयवद्ज्ञानादिगुणरत्नानाम्, प्राप्तो वा गुणप्रकर्षमिति गम्यते। एकमेवान्तिमभवग्रहणसम्भवं दुःखं यस्य स एकदुःखः । जीवानां प्राणिनामेकभूतः एक एव आत्मोपम इत्यर्थः, एकान्तहितवृत्तित्वाद्, एकत्वं चास्य बहूनामपि समस्वभावत्वादिति ।
[सू० २९] एगा अहम्मपडिमा जं से आया परिकिलेसति । [सू० ३०] एगा धम्मपडिमा जं से आया पजवजाए ।
[टी०] दुःखं पुनरधर्माभिनिवेशादिति तत्स्वरूपमाह- एगा अहम्मेत्यादि। धारयति दुर्गतौ प्रपततो जीवान् धारयति सुगतौ वा [तान्] स्थापयतीति धर्मः, उक्तं च
दुर्गतौ प्रसृतान् जन्तून्, यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥ [ ]
स च श्रुत-चारित्रलक्षणः, तत्प्रतिपक्षस्त्वधर्मः, तद्विषया प्रतिमा प्रतिज्ञा अधर्मप्रधानशरीरं वा अधर्मप्रतिमा, सा चैका, सर्वस्याः परिक्लेशकारणतयैकरूपत्वाद्, अत एवाह- जं से इत्यादि, यत् यस्मात् से तस्याः स्वाम्यात्मा जीवो अथवा से त्ति सोऽधर्मप्रतिमावानात्मा परिक्लिश्यते रागादिभिर्बाध्यते, संक्लिश्यत इत्यर्थः ।