________________
प्रथममध्ययनम् एकस्थानकम् ।
प्रदेशत्वाभावप्रसङ्गादिति। परमाणु त्ति परमश्चासावात्यन्तिकोऽणुश्च सूक्ष्मः परमाणुः व्यणुकादिस्कन्धानां कारणभूतः, आह च
कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरस-वर्ण-गन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ [ ] इति । स च स्वरूपतः एक एव, अन्यथा परमाणुरेवासौ न स्यादिति । [सू० ३७] एगा सिद्धी । एगे सिद्धे । एगे परिनिव्वाणे । एगे परिनिव्वुडे।
टी०] सकलबादरस्कन्धप्रधानभूतमीषत्प्राग्भाराभिधानपृथिवीस्कन्धं प्ररूपयन्नाहएगा सिद्धी । सिद्ध्यन्ति कृतार्था भवन्ति यस्यां सा सिद्धिः, सा च यद्यपि लोकाग्रम्, यत आह - इहं बोदी चइत्ताणं तत्थ गंतूण सिज्झइ [आव० नि० ९५९] त्ति, तथापि तत्प्रत्यासत्त्येषत्प्राग्भाराऽपि तथा व्यपदिश्यते, आह च– बारसहिं जोयणेहिं सिद्धी सव्वट्ठसिद्धाउ [आव० नि० ९६०] त्ति, यदि च लोकाग्रमेव सिद्धिः स्यात् तदा कथमेतदनन्तरमुक्तं निम्मलदगरयवण्णा तुसार-गोखीर-हार-सरिवन्ने[आव० नि० ९६१] त्यादि तत्स्वरूपवर्णनं घटते ?, लोकाग्रस्यामूर्त्तत्वादिति, तस्मादीषत्प्राग्भारा सिद्धिरिहोच्यते, सा चैका ।
सिद्धेरनन्तरं सिद्धिमन्तमाह- एगे सिद्धे, सिद्ध्यति स्म कृतकृत्योऽभवत् सेधति स्म वा अगच्छत् अपुनरावृत्त्या लोकाग्रमिति सिद्धः, सितं वा बद्धं कर्म ध्मातं दग्धं यस्य स निरुक्तात् सिद्धः कर्माप्रपञ्चनिर्मुक्तः, स च एको द्रव्यार्थतया, पर्यायार्थतस्त्वनन्तपर्याय इति । अथवा सिद्धानाम् अनन्तत्वेऽपि तत्सामान्यादेकत्वम्। कर्मक्षयसिद्धस्य च परिनिर्वाणं धर्मो भवतीति तदाह-एगे परिनिव्वाणे, परि समन्तानिर्वाणं सकलकर्मकृतविकारनिराकरणतः स्वस्थीभवनं परिनिर्वाणम्, तदेकम्, एकदा तस्य सम्भवे पुनरभावादिति । परिनिर्वाणधर्मयोगात् स एव कर्मक्षयसिद्धः परिनिर्वृत उच्यते इति तद्दर्शनायाह- एगे परिनिव्वुए, परिनिर्वृतः सर्वतः शारीर-मानसास्वास्थ्यविरहित इति भावः, तदेकत्वं सिद्धस्येव भावनीयमिति ।
[सू० ३८] एगे सद्दे । एगे रूवे । एगे गंधे । एगे रसे । एगे फासे। एगे सुब्भिसद्दे। एगे दुब्भिसद्दे । एगे सुरूवे । एगे दुरूवे । एगे दीहे। एगे