________________
चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः ।
२८७ धीर इत्यर्थः, मन्दं मन्दस्येव वा मनो यस्य स तथा, नात्यन्तधीरः, एवं मृगमना भीरुरित्यर्थः, सङ्कीर्णमना भद्रादिचित्रलक्षणोपेतमना विचित्रचित्त इत्यर्थः, पुरुषास्तु वक्ष्यमाणभद्रादिलक्षणानुसारेण प्रशस्ताप्रशस्तस्वरूपा मन्तव्या इति । __ भद्रादिलक्षणमिदम्- महु गाहा, मधुगुटिकेव क्षौद्रवटिकेव पिङ्गले पिङ्गे अक्षिणी लोचने यस्य स तथा, अनुपूर्वेण परिपाट्या सुष्ठ जात: उत्पन्नो य: सोऽनुपूर्वसुजातः, स्वजात्युचितकालक्रमजातो हि बल-रूपादिगुणयुक्तो भवति स चासौ दीर्घलाङ्गुलश्च दीर्घपुच्छ इति स तथा, अनुपूर्वेण वा स्थूल-सूक्ष्म-सूक्ष्मतरलक्षणेन सुजातं दीर्घ लागूलं यस्य स तथेति, पुरत: अग्रभागे उदग्र: उन्नत:, तथा धीरः अक्षोभः, तथा सर्वाण्यङ्गानि सम्यक् प्रमाणलक्षणोपेतत्वेन आहितानि व्यवस्थितानि यस्य स सर्वाङ्गसमाहितो भद्रो नाम गजविशेषो भवतीति । चल गाहा, चलं श्लथं बहलं स्थूलं विषमं वलियुक्तं चर्म यस्य स तथा, स्थूलशिराः, स्थूलकेन पेएण त्ति पेचकेन पुच्छमूलेन युक्तः, स्थूलनख-दन्त-वालो हरिपिङ्गललोचन: सिंहवत् पिङ्गाक्षो मन्दो गजविशेषो भवतीति । तणुगाहा, तनुकः कृश: तनुग्रीवः तनुत्वक् तनुचर्मा तनुकदन्तनखवाल:, भीरुः भयशील: स्वभावतः, त्रस्तो भयकारणवशात् स्तब्धकर्णकरणादिलक्षणोपेतो भीत एव, उद्विग्नः कष्टविहारादावुद्वेगवान्, स्वयं त्रस्त: परानपि त्रासयतीति त्रासी च भवेन्मृगो नाम गजभेद इति, एएसिं गाहा भद्दो गाहा कण्ठ्ये । तथादंतेहि हणइ भद्दो मंदो हत्थेण आहणइ हत्थी। गत्ताधरेहि य मिओ संकिन्नो सव्वओ हणइ ॥ [ ] त्ति । [सू० २८२] [१] चत्तारि विकहाओ पन्नत्ताओ, तंजहा-इत्थिकहा, भत्तकहा, देसकहा, रायकहा ।
इत्थिकहा चउव्विहा पन्नत्ता, तंजहा-इत्थीणं जाइकहा, इत्थीणं कुलकहा, इत्थीणं रूवकहा, इत्थीणं णेवत्थकहा ।
भत्तकहा चउव्विहा पन्नत्ता, तंजहा-भत्तस्स आवावकहा, भत्तस्स णिव्वावकहा, भत्तस्स आरंभकहा, भत्तस्स निट्ठाणकहा ।