________________
२८६
पुरओ उदग्गधीरो सव्वंगसमाधितो भद्दो ॥१५॥ चलबहलविसमचम्मो थुल्लसिरो थूलएण पेएण । थूलणह-दंत-वालो हरिपिंगललोयणो मंदो ॥१६॥ तणुओ तणुतग्गीवो तणुयततो तणुयदंत-णह-वालो । भीरू तत्थुव्विग्गो तासी य भवे मिते णामं ॥१७॥ एतेसिं हत्थीणं थोव-थोवं तु जो अणुहरति हत्थी । रूवेण व सीलेण व सो संकिन्नो त्ति णायव्वो ॥१८॥ भद्दो मजति सरए मंदो उण मजते वसंतम्मि । मिओ मजति हेमंते संकिन्नो सव्वकालम्मि ॥१९॥
[टी०] पुरुषजातप्रकरणमेव दृष्टान्त-दार्टान्तिकार्थोपेतमा विकथासूत्रादभिधीयते, पाठसिद्धं चैतत्, नवरम् ऋषभा बलीवर्दाः, जाति: गुणवन्मातृकत्वम्, कुलं गुणवत्पितृकत्वम्, बलं भारवहनादिसामर्थ्यम्, रूपं शरीरसौन्दर्यमिति, पुरुषास्तु स्वयं भावयितव्या: २, अनन्तरदृष्टान्तसूत्राणि तु सपुरुषदार्टान्तिकानि जात्यादीनि चत्वारि पदानि भुवि विन्यस्य षण्णां द्विकसंयोगानां जाइसंपन्ने नो कुलसंपन्ने इत्यादिना स्थानभङ्गकक्रमेण षडेव चतुर्भङ्गिका: कृत्वा समवसेयानि । हस्तिसूत्रे भद्रादयो हस्तिविशेषा वक्ष्यमाणलक्षणा वनादिविशेषिताश्च, यदाहभद्रो मन्दो मृगश्चेति विज्ञेयास्त्रिविधा गजाः । वनप्रचार १ सारूप्य २ सत्त्वभेदोपलक्षिता: ३ ॥ [ ] इति ।
तत्र भद्रो हस्ती भद्र एव धीरत्वादिगुणयुक्तत्वात्, मन्दो मन्द एव धैर्य-वेगादिगुणेषु मन्दत्वात्, मृगो मृग एव तनुत्व-भीरुत्वादिना, सङ्कीर्णः किञ्चिद् भद्रादिगुणयुक्तत्वात् सङ्कीर्ण एवेति, पुरुषोऽप्येवं भावनीय:, उत्तरसूत्राणि तु चत्वारि सदार्टान्तिकानि भद्रादिपदानि चत्वारि तदध: क्रमेण चत्वार्येव भद्रमन:प्रभृतीनि च विन्यस्य भद्दे नामं एगे भद्दमणे इत्यादिना क्रमेण समवसेयानि, | म
न, | भम | मंम | मिम | संम , तत्र भद्रो जात्याकाराभ्यां प्रशस्तस्तथा भद्रं मनो यस्याथवा भद्रस्येव मनो यस्य स तथा,