________________
चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः ।
२७९ कमग्रमहिषीसूत्रप्रपञ्चमाह, कण्ठ्यश्चायम्, नवरं महारन्नो त्ति लोकपालस्याग्रभूता: प्रधाना महिष्यो राजभार्या अग्रमहिष्य इति, वइरोयण त्ति विविधैः प्रकारै रोचन्ते दीप्यन्त इति विरोचनास्त एव वैरोचना: उत्तरदिग्वासिनोऽसुरा:, तेषामिन्द्रः । धरणसूत्रे एवमिति कालवालस्येव कोलवाल-शैलपाल-शङ्खपालानामेतन्नामिका एव चतस्रश्चतम्रो भार्याः, एतदेवाह- जाव संखवालस्स त्ति। भूतानन्दसूत्रे एवमिति यथा कालवालस्य तथान्येषामपि, नवरं तृतीयस्थाने चतुर्थो वाच्यः, धरणस्य दक्षिणनागकुमारनिकायेन्द्रस्य लोकपालानामग्रमहिष्यो यथा यन्नामिकास्तथा तन्नामिका एव सर्वेषां दाक्षिणात्यानां शेषाणामष्टानां वेणुदेव-हरिकान्त- अग्निशिख-पूर्ण-जलकान्त-अमितगति-वेलम्बघोषाख्यानामिन्द्राणां ये लोकपाला: सूत्रे दर्शितास्तेषां सर्वेषामिति, यथा च भूतानन्दस्यौदीच्यनागराजस्य तथा शेषाणामष्टानामौदीच्येन्द्राणां वेणुदालि-हरिस्सहा-ऽग्निमानवविशिष्ट-जलप्रभा-ऽमितवाहन-प्रभञ्जन-महाघोषाख्यानां ये लोकपालास्तेषामपीति, एतदेवाह- जहा धरणस्सेत्यादि । ।
[सू० २७४] चत्तारि गोरसविगतीओ पन्नत्ताओ, तंजहा-खीरं, दहि, सप्पिं, णवणीतं ।
चत्तारि सिणेहविगतीओ पन्नत्ताओ, तंजहा-तेल्लं, घयं, वसा, णवणीतं । चत्तारि महाविगतीओ पन्नत्ताओ, तंजहा-महु, मंसं, मजं, णवणीतं ३॥ [टी०] उक्तं सचेतनानामन्तरम्, अथान्तराधिकारादेवाचेतनविशेषाणां विकृतीनां गोरस-स्नेह-महत्त्वलक्षणमन्तरं सूत्रत्रयेणाह- चत्तारीत्यादि, गवां रसो गोरस:, व्युत्पत्तिरेवेयं गोरसशब्दस्य, प्रवृत्तिस्तु महिष्यादीनामपि दुग्धादिरूपे रसे, विकृतयः शरीर-मनसोः प्रायो विकारहेतुत्वादिति, शेषं प्रकटम्, नवरं सर्पिः घृतम्, नवनीतं म्रक्षणम् । स्नेहरूपा विकृतय: स्नेहविकृतयः, वसा अस्थिमध्यरस: । महाविकृतयो महारसत्वेन महाविकारकारित्वात्, महत: सत्त्वोपघातस्य कारणत्वाच्चेति, इह विकृतिप्रस्तावाद् विकृतयो वृद्धगाथाभिः प्ररूप्यन्ते
खीरं ५ दहि ४ णवणीयं ४ घयं ४ तहा तेल्लमेव ४ गुड २ मजं २ । महु २ मंसं ३ चेव तहा ओगाहिमगं च दसमा उ ॥