________________
२७६
उत्पाद: हासोत्पत्ति: । पासित्त त्ति दृष्ट्वा विदूषकादिचेष्टां चक्षुषा, तथा भाषित्वा वाचा किञ्चिच्चसूरिवचनम्, तथा श्रुत्वा श्रोत्रेण परोक्तं तथाविधवाक्यम्, तथा तथाविधमेव चेष्टा-वाक्यादिकं स्मृत्वा, हसतीति शेष:, एवं दर्शनादीनि हासकारणानि भवन्तीति ।
[सू० २७०] चउव्विहे अंतरे पन्नत्ते, तंजहा-कटुंतरे, पम्हंतरे, लोहंतरे, पत्थरंतरे। एवामेव इथिए वा पुरिसस्स वा चउव्विहे अंतरे पन्नत्ते, तंजहाकटुंतरसमाणे, पम्हंतरसमाणे, लोहंतरसमाणे, पत्थरंतरसमाणे ।
[टी०] असिद्धानामेव धर्मान्तरनिरूपणाय दृष्टान्त-दार्टान्तिकार्थवत् सूत्रद्वयम्, कठेत्यादि, काष्ठस्य च काष्ठस्य चेति काष्ठयोरन्तरं विशेषो रूपनिर्माणादिभिरिति काष्ठान्तरम्, एवं पक्ष्म कर्पासरूतादि, पक्ष्मणोरन्तरं विशिष्टसौकुमार्यादिभिः, लोहान्तरम् अत्यन्तच्छेदकत्वादिभिः, प्रस्तरान्तरं पाषाणान्तरं चिन्तितार्थप्रापणादिभिरिति, एवमेव काष्ठाद्यन्तरवत्, स्त्रिया वा स्त्र्यन्तरापेक्षया, पुरुषस्य वा पुरुषान्तरापेक्षया, वाशब्दौ स्त्रीपुंसयोश्चातुर्विध्यं प्रति निर्विशेषताख्यापनार्थों, काष्ठान्तरेण समानं तुल्यमन्तरं विशेषो विशिष्टपदवीयोग्यत्वादिना, पक्ष्मान्तरसमानं वचनसुकुमारतयैव, लोहान्तरसमानं स्नेहच्छेदेन परीषहादौ निर्भङ्गत्वादिभिश्च, प्रस्तरान्तरसमानं चिन्तातिक्रान्तमनोरथपूरकत्वेन विशिष्टगुणवद्वन्द्यपदवीयोग्यत्वादिना चेति ।
[सू० २७१] चत्तारि भयगा पन्नत्ता, तंजहा-दिवसभयते, जत्ताभयते, उच्चत्तभयते, कब्बालभयते ।
[टी०] अनन्तरमन्तरमुक्तमिति पुरुषविशेषान्तरनिरूपणाय भृतकसूत्रम्, तत्र भ्रियते पोष्यते स्मेति भृतः, स एवानुकम्पितो भृतकः, कर्मकर इत्यर्थः, प्रतिदिवसं नियतमूल्येन कर्मकरणार्थं यो गृह्यते स दिवसभृतक: १, यात्रा देशान्तरगमनं तस्यां सहाय इति भ्रियते य: स यात्राभृतकः २, मूल्य-कालनियमं कृत्वा यो नियतं यथावसरं कर्म कार्यते स उच्चताभृतक: ३, कब्बाडभृतक: क्षितिखानक: ओड्डादिः, यस्य स्वं कार्फाते ‘द्विहस्ता त्रिहस्ता वा त्वया भूमि: खनितव्या, एतावत्ते धनं दास्यामि' इत्येवं नियम्येति।