SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः । २७५ तद्वन्तश्च ते दुर्गतेतरा भवन्तीति दुर्गति-सुगत्यात्मकपरिणामयोर्दुर्गत-सुगतानां च भेदान् सूत्रचतुष्टयेनाह- सुगमानि । नवरं मनुष्यदुर्गति: दुषित [निन्दित]मनुष्यापेक्षया, देवदुर्गतिः किल्बिषिकाद्यपेक्षयेति । सुकुलपच्चायाइ त्ति देवलोकादौ गत्वा सुकुले इक्ष्वाक्वादौ प्रत्यायाति: प्रत्यागमनं प्रत्याजातिर्वा प्रतिजन्मेति, इयं च तीर्थकरादीनामेवेति मनुष्यसुगते गभूमिजादिमनुजत्वरूपाया भिद्यते, दुर्गतिरेषामस्तीत्यचि प्रत्यये दुर्गता दुःस्था वा दुर्गता:, एवं सुगताः । - [सू० २६८] पढमसमयजिणस्स णं चत्तारि कम्मंसा खीणा भवंति, तंजहा-णाणावरणिजं, दसणावरणिजं, मोहणिजं, अंतराइतं । उप्पन्ननाणदंसणधरे णं अरहा जिणे केवली चत्तारि कम्मंसे वेदेति, तंजहा-वेदणिजं, आउयं, णाम, गोतं । पढमसमयसिद्धस्स णं चत्तारि कम्मंसा जुगवं खिजंति, तंजहा-वेयणिज्जं, आउयं, णाम, गोतं । [टी०] अनन्तरं सिद्धसुगता उक्ता:, ते चाष्टकर्मक्षयात् भवन्त्यत: क्षयपरिणामस्य क्रममाह- पढमेत्यादि सूत्रत्रयं व्यक्तम्, परं प्रथम: समयो यस्य स तथा स चासौ जिनश्च सयोगिकेवली प्रथमसमयजिनस्तस्य कर्मण: सामान्यस्यांशा: ज्ञानावरणीयादयो भेदा इति । उत्पन्ने आवरणक्षयाज्जाते ज्ञान-दर्शने विशेष-सामान्यबोधरूपे धारयतीत्युत्पन्नज्ञान-दर्शनधरोऽनेनाऽनादिसिद्धकेवलज्ञानवत: सदाशिवस्यासद्भावं दर्शयति, न विद्यते रहः एकान्तो गोप्यमस्य सकलसन्निहित-व्यवहित-स्थूल-सूक्ष्मपदार्थसार्थसाक्षात्कारित्वादित्यरहा, देवादिपूजाऽर्हत्वेनार्हन् वा, रागादिजेतृत्वाजिनः, केवलानि परिपूर्णानि ज्ञानादीनि यस्य सन्ति स केवलीति । सिद्धत्वस्य कर्मक्षपणस्य च एकसमये सम्भवात् प्रथमसमयसिद्धस्येत्यादि व्यपदिश्यते । [सू० २६९] चउहिं ठाणेहिं हासुप्पत्ती सिता, तंजहा-पासेत्ता, भासेत्ता, सुणेत्ता, संभरेत्ता । [टी०] असिद्धानां तु हास्यादयो विकारा भवन्तीति हास्यं तावच्चतु:स्थानकावतारित्वादाह- चउहीत्यादि, हसनं हास: हासमोहनीयजनितो विकारः, तस्योत्पत्ति:
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy