________________
२७४
सव्वातो बहिद्धादाणातो वेरमणं ।
सव्वेसु वि णं महाविदेहेसु अरहंता भगवंतो चाउजामं धम्मं पण्णवयंति, तंजहा-सव्वातो पाणातिवाताओ वेरमणं जाव सव्वातो बहिद्धादाणाओ वेरमणं ।
[टी०] अजीवद्रव्यपरिणाम उक्तः, अधुना तु जीवद्रव्यस्य परिणामा विचित्राः सूत्रप्रपञ्चेनाभिधीयन्ते, तत्र च भरतेत्यादिसूत्रद्वयं व्यक्तम्, किन्तु पुरिम-पश्चिमवर्जाः, किमुक्तं भवति ? मध्यमका इति, ते चाष्टादयोऽपि भवन्तीत्युच्यते-द्वाविंशतिरिति। चत्वारो यमा एव यामा निवृत्तयो यस्मिन् स तथा । बहिद्धादाणाओ त्ति बहिद्धा मैथुनं परिग्रहविशेष:, आदानं च परिग्रहस्तयोर्द्वन्द्वैकत्वम्, अथवा आदीयत इत्यादानं परिग्राह्यं वस्तु, तच्च धर्मोपकरणमपि भवतीत्यत आह- बहिस्तात् धर्मोपकरणाद् बहिर्यदिति, इह च मैथुनं परिग्रहेऽन्तर्भवति, न ह्यपरिगृहीता योषिद् भुज्यते, इति प्रत्याख्येयस्य प्राणातिपातादेश्चतुर्विधत्वात् चतुर्यामता धर्मस्येति, इयं चेह भावनामध्यमतीर्थकराणां विदेहकानां च चतुर्यामधर्मस्य पूर्व-पश्चिमतीर्थकरयोश्च पञ्चयामधर्मस्य प्ररूपणा शिष्यापेक्षा, परमार्थतस्तु पञ्चयामस्यैवोभयेषामप्यसौ, यत: प्रथमपश्चिमतीर्थकरतीर्थसाधव ऋजुजडा वक्रजडाश्चेति, तत्त्वादेव परिग्रहो वर्जनीय इत्युपदिष्टे मैथुनवर्जनमवबोद्धं पालयितुं च न क्षमाः, मध्यम-विदेहजतीर्थकरतीर्थसाधवस्तु ऋजुप्रज्ञत्वात् तद् बोद्धं वर्जयितुं च क्षमा इति ।
[सू० २६७] चत्तारि दुग्गतीतो पन्नत्ताओ, तंजहा-णेरइयदुग्गती, तिरिक्खजोणियदुग्गती, मणुस्सदुग्गई, देवदुग्गई ।
चत्तारि सोग्गईओ पन्नत्ताओ, तंजहा-सिद्धसोग्गती, देवसोग्गती, मणुयसोग्गती, सुकुलपच्चायाति ।
चत्तारि दुग्गता पन्नत्ता, तंजहा-नेरइयदुग्गता, तिरिक्खजोणियदुग्गता, मणुस्सदुग्गता, देवदुग्गता ।
चत्तारि सोग्गता पन्नत्ता, तंजहा-सिद्धसोग्गता जाव सुकुलपच्चायाया । [टी०] अनन्तरोक्तेभ्य: प्राणातिपातादिभ्योऽनुपरतोपरतानां दुर्गति-सुगती भवतः,